________________
लोकप्रकाशे १६ सर्गे
भरते
॥१७६॥
Jain Education
विंशतिः । खण्डोऽनार्यस्तान् विनाऽसौ खण्डाः पञ्चापरे तथा ॥ ४४ ॥ मध्यखण्डगतेष्वार्यदेशेष्वेव भवेजनिः । अर्हतां चक्रिणामर्द्धचक्रिणां शीरिणां तथा ॥ ४५ ॥
अष्टात्रिंशे योजनानां द्वे शते त्रिकलाधिके । अतिक्रम्य हिमवतो, दक्षिणस्यां तथाऽम्बुधेः ॥४६॥ एतावदेवातिक्रम्योत्तरस्यामत्र राजतः । वैताढ्यो मध्यस्थ इव, व्यभजगरतं स च ॥४७॥ पञ्चाशतं योजनानि, विस्तीर्णः पंचविंशतिम् । योजनान्युन्नतः क्रोशाधिकानि षड् भुवोऽन्तरे ॥४८॥ युग्मं ॥ विहाय मन्दरं सर्वपर्वतानां भवेयतः । खखोच्छ्रयस्य तुर्याशो, व्यवगाढो भुवोऽन्तरे ॥ ४९ ॥ द्वे योजनशते साष्टाशीतिके त्रिकलाधिके । इषुर्वैताव्यशैलस्य, प्रत्यश्चाऽस्य प्रपश्चयते ॥५०॥ योजनानां सहस्राणि दश सप्त शतानि च । विंशतिश्च कलाः किञ्चिदूना द्वादश कीर्त्तिताः ॥ ५१ ॥ धनुःपृष्ठं सहस्राणि दश सप्त शतानि च । त्रिचत्वारिंशताऽऽट्यानि, कलाः पञ्चदशाधिकाः ॥ ५२ ॥ साष्टाशीतियजनानां चतुःशती तथा कलाः । सार्द्धाः षोडश बाहाऽस्य, प्रत्येकं पार्श्वयोर्द्वयोः ॥ ५३ ॥ स्थापना । ऊर्ध्व च पर्वतस्यास्य, दक्षिणोत्तरपार्श्वयोः । अतिक्रमे योजनानां दशानां समभूमितः ॥ ५४ ॥ अत्रास्ति मेखलैकैका, दशयोजनविस्तृता । आयामेन च वैताठ्यसमाने ते उभे अपि ॥ ५५ ॥ पृथुस्त्रिंशद्योजनानि, वैताढ्यः स्यादतः परम् । प्रतिमेखलमेकैका, मानतो मेखला समा ॥ ५६ ॥ शोभिता वनखण्डेन, पद्मवेदिकयापि च । वर्त्तते खेचरश्रेणीरत्नव महीतला ॥ ५७ ॥ युग्मम् । स्युस्तत्र दक्षिणश्रेणी, वृतानि विषयैर्निजैः । महापुराणि पञ्चाशत्परस्यां षष्टिरेव च ॥ ५८ ॥ दक्षिणस्यां पुरं मुख्यं भवेद्गगनवल
For Private & Personal Use Only
दक्षिणार्धस्य वैताढ्य -
स्य स्व०
२०
२५
॥ १७६ ॥
२८
jainelibrary.org