SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Jain Educatio ख्यव्यासेऽन्तर्भाव्यतामसौ ॥ २९ ॥ विष्कम्भो भरतस्याथ, शरश्च कथितो जिनैः । षडविंशानि योजनानि, शतानि पञ्च षट् कलाः ॥ ३० ॥ चतुर्दश सहस्राणि चतुःशत्येकसप्ततिः । योजनान्यस्य जीवा स्यात्किंचिदूनाश्च षट् कलाः ॥ ३१ ॥ धनुःपृष्टं सहस्राणि चतुर्दश तथोपरि । अष्टाविंशा पञ्चशती, कला एकादशाधिकाः ॥ ३२ ॥ योजनानां त्रिपञ्चाशल्लक्षा अशीतिरेव च । सहस्राणि षट् शतानि तथैकाशीतिरित्यथ ॥ ३३ ॥ कलाः सप्तदश तथा तावत्यो विकला अपि । एतावद्भरतक्षेत्रे, प्रोक्तं क्षेत्रफलं जिनैः ॥ ३४ ॥ बाहा त्वत्र न संभवति ॥ तच्चेदं भरतं देधा, वैताख्यगिरिणा कृतम् । दाक्षिणात्यं भरतार्द्धमुत्तरार्द्ध तथाऽपरम् ॥ ३५ ॥ षोढा हिमवदुत्थाभ्यां भित्त्वा वैताढ्यभूधरम् । गङ्गासिन्धुभ्यां कृतं तद्गत्वा पूर्वापराधी ॥ ३६ ॥ अर्द्धस्य दाक्षिणात्यस्य स्याद्विष्कम्भः शरोऽपि च । अष्टात्रिंशे योजनानां द्वे शते च कलात्रयम् ॥ ३७ ॥ योजनानां सहस्राणि, नव सप्त शतानि च । जीवाऽष्टचत्वारिंशानि, द्वादशात्र कलास्तथा ॥ ३८ ॥ धनुःपृष्ठं | योजनानां सहस्राणि नवोपरि । शतानि सप्त षट्षष्टिः, कलैका दक्षिणार्द्धके ॥ ३९ ॥ लक्षाण्यष्टादश पञ्चत्रिंशदेव सहस्रकाः । चतुःशती योजनानां पञ्चाशीतिस्तथोपरि ॥ ४० ॥ कला द्वादश विकलाः, षडित्येवं जिनेश्वरैः । दाक्षिणात्ये भरतार्डे, सर्व क्षेत्रफलं मतम् ॥४१॥ बाहा त्वव न संभवति । स्थापना । वैताव्यादक्षिणस्यां चोत्तरस्यां लवणार्णवात् । चतुर्दशाधिकशतं, योजनानि कलास्तथा ॥ ४२ ॥ एकादशातीत्य मध्यखण्डेऽयोध्यापुरी भवेत् । नवयोजनविस्तीर्णा, द्वादशयोजनायता ॥ ४३ ॥ खण्डेऽत्रैवार्यदेशानां स्यात्सार्द्धा पश्च ational For Private & Personal Use Only ५ १० १४ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy