________________
लो. प्र. ३०
Jain Education
॥ अथ षोडशः सर्गः प्रारभ्यते ॥
द्वीपस्यास्थाथ पर्यन्ते, स्थितं दक्षिणगामिनि । नानावस्थं कालचत्रैर्भरतं क्षेत्रमीरितम् ॥ १ ॥ अधिज्यधनुराकारं स्पृष्टं तच पयोधिना । पूर्वपश्चिमयोः कोट्योः, पृष्ठभागे च सर्वतः ॥ २॥ यो योऽवोत्पद्यते क्षेत्रेऽधिष्ठाता पल्यजीवितः । तमाह्वयन्ति भरतं, तस्य सामानिकादयः ॥ ३ ॥ कल्पस्थितिपुस्तकेषु तथा लिखितदर्शनात् । तत्स्वामिकत्वाद्भरतं, किंचेदं नाम शाश्वतम् ॥ ४ ॥ अत्र क्षेत्रादिप्रमाणं, षोढा विष्कम्भत १ स्तथा । इषु २ जीवा ३ धनुःपृष्ठ ४ बाहा ५ क्षेत्रफलै ६ ब्रुवे ॥ ५ ॥ तत्र विष्कम्भः प्रतीतः, शेषाणां त्विमानि लक्षणानि - विवक्षितस्य क्षेत्रस्य, जीवाया मध्यभागतः । विष्कम्भो योऽर्णवं यावत्स इषुः परिभाषितः ॥ ६ ॥ विवक्षितस्य क्षेत्रस्य, पूर्वापरान्तगोचरः । आयामः परमो योऽत्र, सा जीवेत्यभिधीयते ॥ ७ ॥ विवक्षितक्षेजीवापूर्वापरान्त सीमया । योऽब्धिस्पर्शी परिक्षेपो, धनुःपृष्ठं तदूचिरे ॥ ८ ॥ पूर्वक्षेत्रधनुः पृष्ठाद्धनुः पृष्ठेऽग्रिमेऽधिकम् । खण्डं वक्रबाहुवद्यत्सा वाहेत्यभिधीयते ॥ ९ ॥ विवक्षितस्य क्षेत्रस्य, यानि योजनमात्रया । खण्डानि सर्वक्षेत्रस्य, तत्क्षेत्रफलमुच्यते ॥ १० ॥ उच्चत्वस्यापि यन्मानं, सर्वतो योजनादिभिः । एतद् घनक्षेत्रफलं, पर्वतेष्वेव संभवेत् ॥ ११ ॥ स्थापना । छिन्नस्यैकोनविंशत्या, विभागो योजनस्य यः । सा कला ताभिरेकोनविंशत्या पूर्णयोजनम् ॥ १२ ॥ एकोनविंशतितमः कलाया अपि यो लवः । विकला ताभिरेकोनविंशत्यैका कला भवेत् ॥ १३ ॥ इति परिभाषा ॥
For Private & Personal Use Only
१०
१४
jainelibrary.org