________________
लोकप्रकाशे क्षेत्रलोके सर्गः१५
विजयादिद्वारान्तरम्
॥१७४॥
धनुषां, द्वात्रिंशचापसंयुतम् । त्रीण्यङ्गुलानि त्रियवी, यूके द्वे साधिके इति ॥ ५५ ॥ ७९०५२ क्रोश १ धनुः १५३२ अंगुल ३ यव ३ यूका२॥ इत्यस्य जम्बूद्वीपस्य, बहिर्भागो निरूपितः। अथैतस्य मध्यभागो, यथाम्नायं निरूप्यते ॥५६॥ क्षेत्राणि सप्त सन्त्यस्य, जम्बूद्वीपस्य मध्यतः । एकैकेन पर्वतेनान्तरितानि परस्परम् ॥ ५७ ॥ प्रथमं भरतक्षेत्रं, परं हैमवताभिधम् । तृतीयं हरिवर्षाख्यं, तुर्य महाविदेहकम् ॥५८॥ पंचम रम्यकं षष्ठं, हैरण्यवतमीरितम् । ऐरावतं सप्तमं चान्तराऽमूनि नगा इमे ॥ ५९॥ आद्यद्वितीययोर्मध्ये, हिमवान्नामपर्वतः। महाहिमवदद्रिश्च, द्वैतीयीकतृतीययोः ॥६०॥ तृतीयतुयेंयोरन्तर्निषधो नाम सानुमान् । तुर्यपञ्चमयोलवान्नगः सीमकारकः॥६१॥ रूप्यी शैलः क्षेत्रयोः स्यान्मध्ये पञ्चमषष्ठयोः। षष्ठसप्तमयोश्चैव, शिखरी भूधरोऽन्तरे ॥ १२॥ वर्षवर्षधरनाममात्रतो, द्वीप एष कथितो यदोघतः। तद्विशेषविधिवर्णनेच्छयोदेश एवं विहितोऽवसीयताम् ॥ ६३ ॥ (रथोद्धता) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रांतिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गः पञ्चदशः समाप्तिमगमत्सिद्धान्तसारोज्वलः॥ २६४॥
92029290909200000
॥१७४॥
ॐ ॥ इति श्रीलोकप्रकाशे पंचदशः सर्गः समाप्तः॥
Jain Education
a
l
For Private
Personal Use Only
Mainelibrary.org