________________
वनखण्डेन, पद्मवेदिकयापि च ॥ ३९॥ हृदस्योत्तरपूर्वस्यामभिषेकसभाऽत्र च । सिंहासनपीठिकायां, विजयोत्राभिषिच्यते ॥ ४०॥ इतोऽप्युत्तरपूर्वस्यां, ससिंहासनपीठिका । अलङ्कारसभा तत्र, भूष्यते विजयामरः ॥४१॥ अस्या उत्तरपूर्वस्यां, व्यवसायसभाऽत्र च । सिंहासनं पीठिकायां, विजयस्य च पुस्तकः ॥४२॥ वर्णरूप्यमणिमयः, समस्तस्थितिसूचकः। सपीठिके सभे चैते, उपपातसभासमे॥४३॥ व्यवसायसभायाश्च, वर्वयुत्तरपूर्वतः। द्वियोजनमितायामव्यासयोजनमेदुरम् ॥४४॥ बलिपीठं रत्नमयं, तस्याप्युत्तरपूर्वतः। नन्दापुष्करिणी प्रोक्तहदमाना विराजते ॥ ४५ ॥ यथा चैवं विजयस्य, नगरी विजयाभिधा। तथा स्याद्वैजयन्तस्य, वैजयन्ताभिधा पुरी ॥४६॥ वैजयन्ताभिधद्वाराद्, दक्षिणस्यामसंख्यकान् । द्वीपाब्धीन् समतिक्रम्य, जम्बूद्वीप इहैव हि ॥४७॥ जयन्तस्यापि साऽव, द्वीपे तवारतो दिशि । पश्चिमायामसंख्येयदीपाब्धीनामतिक्रमे ॥४८॥ अपराजितदेवस्योत्तरस्यामपराजितात्। द्वारादसंख्यदीपाब्धीन, मुक्त्वा द्वीप डदेव सा॥४९॥ एताः सर्वा राजधान्योऽवगाह्य दीपमेतकम् । सहस्राणि योजनानां, बादशाभ्यन्तरे स्थिताः ॥५०॥ एवं सर्वद्वीपवार्द्धिजगतीदारनाकिनाम् । पुर्यः स्वस्खद्वीपवार्द्धितुल्याख्यद्वीपवार्द्धिषु ॥५१॥
अथास्य जम्बूद्वीपस्य, द्वाराणामन्तरं मिथः । द्वारविस्ताररहितपरिधेः पादसंमितम् ॥५२॥ अर्द्धपश्चमविस्तारं, द्वारमेकैकमग्रतः। अष्टादश योजनानि, तैरूनं परिधिं कुरु ॥५३॥ ३१६२०९क्रोश ध.१२५ अं१३॥ तस्य तुर्याश एकोनाशीतिः खलु सहस्रकाः। योजनानि द्विपञ्चाशत्क्रोशश्चैकस्तथाधिकः॥५४॥ साई सहस्रं
रिcिeKaroeseseseseseseo
१०
रख
Jain Education
LOww.jainelibrary.org
For Private
ITAItional
Personal Use Only