________________
| तथैव च ॥ ९ ॥ दक्षिणस्यामुत्तरस्यां तासां सहस्रमेककम् । ताः सर्वा अपि रैरूप्यफलकैः खचिता ध्रुवम् ॥ १०॥ नागदन्ता वज्रमयाः, फलकेष्वथ तेष्वपि । सुगन्धिपुष्पदामानि, लम्बमानान्यनेकशः ॥ ११ ॥ सुधर्मायां सभायां च, स्युर्धूपवासपीठिकाः । षट् सहस्राणि ताः प्राग्वद्भावनीया यथाक्रमम् ॥ १२ ॥ एता अपि स्वर्णरूप्यफलकैरुपशोभिताः । फलकेषु लसद्वज्रनागदन्ता अमीषु च ॥ १३ ॥ वाचिकानि सिक्यकानि, सिक्यकेषु व वज्रजाः । उद्गिरन्त्यो धूपघट्यो, धूपधूममहर्निशम् ॥ १४ ॥ स्थापना । तथैतस्याः सुधर्माया, मध्येऽस्ति मणिपीठिका । योजनद्वयविष्कम्भायामा योजनमेदुरा ॥ १५ ॥ चैत्यस्तम्भ उपर्यस्या, महान्माणवकाभिधः । सार्द्धसप्तयोजनोचः, क्रोशार्द्धस्थूलविस्तृतः ॥ १६ ॥ उपर्यधस्त्वसौ स्तम्भः, षट् षट् क्रोशान् विहाय च । मध्यांशेऽष्टादशक्रोशे, रेरूप्यफलकाञ्चितः ॥ १७ ॥ प्राग्वत्तेषु नागदन्ता, निरुद्धा वज्रसिक्यकैः । तेषु वज्रसिक्यकेषु वृत्ता वज्रसमुद्गकाः ॥१८॥ तेषु वज्रसमुद्वेषु, जिनसथीनि सन्ति च । विजयखर्गिणाऽन्यैश्चार्चितानि व्यन्तरामरैः ॥ १९ ॥ पूज्यत्वमेषां सक्थनां तु तादृग्महिमयोगतः । यदेतत्क्षालनजलं, सुराणामपि दोषहृत् ॥ २० ॥ तथोक्तं श्राद्धविधिवृत्तौ"नव्योत्पन्नतया तर्हि, सौधर्मेशानशक्रयोः । विवादोऽभूद्विमानार्थ, हम्यर्थमिव हथिणोः ॥ २१ ॥ तयोरिवोर्वीश्वरयोर्विमानविप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवन्ननेकशः॥ २२॥ निवार्यते हि कलहस्तिरश्चां तरसा नरैः । नराणां च नराधीशैर्नराधीशां सुरैः कचित् ॥ २३ ॥ सुराणां च सुराधीशैः सुराधीशां पुनः कथम् । केन वा स |निवार्येत ?, वज्राग्निरिव दुःशमः ॥२४॥ माणवकाख्यस्तम्भस्थार्ह दंष्ट्रा शान्तिवारिणा । साधिव्याधिमहादोषमहा
Jain Educationtional
For Private & Personal Use Only
१०
१४
w.jainelibrary.org