________________
Jain Educat
सभा । सुधर्मानाम सतत दिव्यनाव्याप्सरोभृता ॥ ८५ ॥ योजनानि द्वादशैषा, सार्द्धान्यायामतो मता । सक्रोशानि योजनानि, षड् विष्कम्भत ईरिता ॥ ८६ ॥ योजनानि नवोत्तुङ्गा, द्वारैस्त्रिभिरलङ्कृता । प्राच्यामुदीच्यां चापाच्यामेकैकमथ तान्यपि ॥ ८७ ॥ द्वे योजने उच्छ्रितानि, योजनं विस्तृतानि च । तेषां पुरस्तादेकैकः, प्रत्येकं मुखमण्डपः ॥ ८८ ॥ तेऽप्युक्त्तप्ततपनीयचन्द्रोदयविराजिताः । सातिरेके योजने द्वे, समुत्तुङ्गा मनोरमाः ॥ ८९ ॥ ते सुधर्मासभातुल्या, विष्कम्भायामतः पुनः । तेषां पुरस्तादेकैकः स्यात्प्रेक्षागृह मण्डपः ॥ ९० ॥ मुखमण्डपतुल्यास्ते, प्रमाणैः सर्वतो मताः । प्रत्यक्षं तेष्वक्षपादश्चतुरस्राकृतिः स्मृतः ॥ ९१ ॥ मध्ये चाक्षपाटकानां, एकैका मणिपीठिका । अर्द्धयोजनबाहल्या, योजनं विस्तृतायता ॥ ९२ ॥ स्थापना । तासां प्रत्येकमुपरि, सिंहासनमुरु स्फुरत् । तेषां प्रेक्षामण्डपानां, पुरतोऽथ | प्रकीर्त्तिता ॥ ९३ ॥ एकयोजनबाहल्या, द्वे च ते विस्तृतायता । रचिता विविधै रत्नैरेकैका मणिपीठिका ॥ ९४ ॥ क्षेत्रसमासवृहद्वृत्तौ तु इयं द्वियोजनायामविष्कम्भ बाहल्योक्तेति ज्ञेयं । साधिके योजने तुङ्ग, स्तूपस्तदुपरि स्मृतः । देशोने च योजने द्वे, प्रत्येकं विस्तृतायतः ||९५ || क्षेत्रसमासबृहद्वृत्तौ तु अयं देशोन द्वियोजना यामविष्कम्भः परिपूर्णद्वियोजनोच्च उक्त इति ज्ञेयं । तेषां च चैत्यस्तूपानामुपर्यातन्वते श्रियम् । रात्नानि मङ्गलान्यष्टौ, चैत्यस्तूपपुरः पुनः ॥ ९६ ॥ योजनायामविष्कम्भा, भवेद्दिक्षु चतसृषु । अर्द्धयोजनबाहल्या, प्रत्येकं मणिपीठिका १ मणिपीठिकानां समचतुरस्रतामपेक्ष्य तत्, स्तूपस्थापनापेक्षया चैतत् स्यात् २ मणिपीठिकानां विवक्षा अविवक्षा अन्यद्वा कारणं स्यात्.
national
For Private & Personal Use Only
१०
१३
www.jainelibrary.org