SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे क्षेत्र लोके सर्गः १५ ॥ १७१ ॥ रसुरीजुवाम् ॥ ७० ॥ मूलसिंहासनादग्निकोणेऽभ्यन्तरपर्षदः । भद्रासनसहस्राणि, भवन्त्यष्टौ सुधाभुजाम् ॥ ७१ ॥ दक्षिणस्यां दिशि तथा भान्ति मध्यमपर्षदः । दशासन सहस्राणि तावताममृताशिनाम् ॥ ७२ ॥ भद्रासनानि नैर्ऋत्यां बाह्यपर्षत्सुधाभुजाम् । स्युर्द्वादश सहस्राणि, पश्चिमायामथो दिशि ॥ ७३ ॥ सेनापूतीनां सप्तानां सप्त भद्रासनानि च । ततः परं परिक्षेपे, द्वितीयस्मिंश्चतुर्दिशम् ॥ ७४ ॥ चत्वारि चत्वारि सहस्राणि भान्ति चतुर्दिशम् । आत्मरक्षकदेवानां सहस्राणीति षोडश ॥ ७५ ॥ स्थापना । स चैष मूलप्रासाद्श्चतुष्प्रासादवेष्टितः । उच्चत्वायामविष्कम्भैस्तेऽर्द्धमानाश्च मौलतः ॥ ७६ ॥ प्रासादास्तेऽपि चत्वारश्चतुर्भिरपरैरपि । स्वप्रमाणादर्द्धमानैः, प्रत्येकं परितो वृताः ॥ ७७ ॥ परिवारपरीवारभूता एते च मौलतः । चतुर्थभागमानेन, प्रोत्तुङ्गायतविस्तृताः ॥ ७८ ॥ एतेऽपि च खार्द्धमानैश्चतुर्भिरपरैर्वृताः । चतुर्दिशं स्युरित्येवं, प्रत्येकमेकविंशतिः ॥ ७९ ॥ परिवारपरीवार परीवारास्तु मौलतः । विष्कम्भायामतुङ्गत्वैरष्टमांशमिता मताः ॥ ८० ॥ पञ्चाशीतिरमी सर्वे, जीवाभिगमपुस्तके । वृत्तौ तु तुर्या प्रासादपरिपाटी निरीक्ष्यते ॥ ८१ ॥ तथाहि - परिवारपरीवारपरीवारा अपि स्फुटम् । चतुर्भिरपरैमौलात्, षोडशांशमितैर्वृताः ॥ ८२ ॥ तदैकैकस्यां दिशायां, पञ्चाशीतिर्भवन्त्यतः । शतानि वीण्येकचत्वारिंशानि सर्वसंख्यया ॥ ८३ ॥ विना च मूलप्रासादं सर्वेऽप्येते विभूषिताः । एकैकेनैव विजययोग्यसिंहासनेन च ॥ ८४ ॥ स्थापना । अथास्त्युत्तरपूर्वस्यां, मूलप्रासादतः १ जीवाभिगमस्य वृत्तिरन्यथाविधादर्शमूला, स्पष्टं चैतत्तदीयदेवकुर्वादिव्याख्या विलोकनेन. Jain Educationonal For Private & Personal Use Only विजयद्वारवर्णनं २० २५ ॥ १७१ ॥ २७ w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy