________________
स्वष्टसु भौमेषु, स्थितेषभयतस्ततः। अस्ति प्रत्येकमेकैकं, रत्नभद्रासनं महत्॥५५॥ स्थापना तथा तस्या राजधान्या, बहिर्दिक्षु चतसृषु । योजनानां पञ्चशत्याः, पुरतो वनमेककम् ॥५६॥ प्राच्यामशोकविपिनमपाच्यां साप्तपर्णिकम् । प्रतीच्यां चम्पकवनमुदकू चूतवनं क्रमात् ॥ ५७ ॥ सहस्राणि योजनानां, बादशायामतोऽथ ते । स्युः पञ्चशतविष्कम्भा, वनखण्डाः पृथक् पृथक् ॥५८॥ प्रत्येकं वप्रवलयपरिक्षिप्ताः समन्ततः। मध्ये तेषां तथैकैकः, स्यात्मासादावतंसकः॥ ५९॥ द्वाषष्टिं योजनान्यर्दाधिकानि ते समुन्नताः। योजनान्येकत्रिशत्, सक्रोशानि च विस्तृताः॥६०॥ प्रत्येकं रत्नघटितसिंहासनविभूषिताः। पल्योपमायुरेकैकनिर्जराधि|ष्ठिता अपि ॥ ६१॥ स्थापना । मध्येऽथास्या राजधान्या, भूमिभागे मनोहरे । शुद्धजाम्बूनदमयः, पीठबन्धो विराजते ॥ ६२॥ योजनानां शतान्येष, द्वादशायतविस्तृतः। क्रोशार्द्धमेदुरः पद्मवेदिकावनवेष्टितः॥१३॥ त्रिसोपानकमेकैक, द्वारं चारु विराजते । मणीमयं तोरणेन, तत्र दिक्षु चतसृषु ॥६४ ॥ मध्येऽस्य पीठबन्धस्य, भूमिभागेऽस्ति बन्धुरे । महानेकस्तपनीयमयः प्रासादशेखरः॥६५॥द्वाषष्टिं योजनान्याधिकानि स समुन्नतः। उच्चत्त्वस्यार्द्धमानेन, भवत्यायतविस्तृतः॥६६॥ तस्य प्रासादस्य मध्ये, महती मणिपीठिका। सा द्विगव्यूतबाहल्या, योजनं विस्तृतायता ॥ ६७॥ तस्या मणिपीठिकाया, मध्ये सिंहासनं महत् । वृत्तं विजयदेवाई, सामानिकादिकासनैः ॥ ६८॥ तच्चैवं-मूलसिंहासनाद्वायूत्तरेशान दिशां नये । सामानिकानां चत्वारि, सहस्राण्यासनानि वै ॥ ६९ ॥ प्राच्यामग्रमहिषीणामासनानि चतसृणाम् । चत्वार्येवातिचतुरपरिवा-|
स्य, भूमि उच्चत्वस्यामजनं विस्त॥१८॥
मिभागेऽस्ति बन्धुभवत्यायतविस्तृतः
Has69920299229202
मणिपीठिकाया,
त्रये । सामानिका
Jain Educate
For Private Personal Use Only
w.jainelibrary.org