________________
लोकप्रकाशे क्षेत्रलोके
सर्गः १५
॥ १६९॥
Jain Education
| भाण्डभृताः सुप्रतिष्ठकाश्चैव । पीठात्ममनोगुलिकायुताः फलकनागदन्तायैः ॥ १९ ॥ ( आर्या ) रानाः करण्डका राना, हयकण्ठादयोऽष्ट च । चङ्गेर्यस्तेष्वष्टविधाः, पटलान्यपि चाष्टधा ॥२०॥ तथाहि पुष्पैर्माल्यैश्वर्णगन्धैर्वस्त्रसिद्धार्थभूषणैः । लोमहस्तैश्च संपूर्णाश्चङ्गेर्यः पटलानि च ॥ २१ ॥ सिंहासनातपत्रे चमराणि समुद्गकाश्च दशभेदाः । प्रतितोरणमेतेषां द्वयं द्वयं भवति सर्वेषाम् ॥ २२ ॥ ( आर्या ) समुद्गकसंग्रहगाथा चेयं -तेले १ कोड२ समुग्गे पत्ते ३ चोए अ ४ तगर ५ एलाय ६ । हरिआले ७ हिंगुलए ८ मणोसिला ९ अंजणसमुग्गे १० ॥ २३ ॥ तथात्र विजयद्वारे, शतमष्टाधिकं ध्वजाः । प्रत्येकं चक्रादिचिह्ना, दशधा ते त्वमी मताः ॥ २४ ॥ चक्रमृगगरुडसिंहाः पिच्छवृकच्छत्रवर्यहर्यक्षाः । वृषभचतुर्दन्तगजाः सर्वेऽशीत्यन्वितसहस्रम् ॥ २५ ॥ ( आर्या ) विशिष्टस्थानरूपाणि, भौमानि नवसंख्यया । विजयद्वारस्य पुरः, स्युर्भाग्यानि तदीशितुः ॥ २६ ॥ तथाहुर्जीवाभिगमे - "विजयस्स णं दारस्स पुरओ नव भोमा पण्णत्ता" इत्यादि, समवायाङ्गे तु "विजयस्स णं दारस्स एगमेगाए बाहाए नव नव भोमा पण्णत्ता' इति दृश्यते, तदत्र तत्त्वं सर्वविद्वेयं । मध्ये च तेषां भौमानां पञ्चमे सपरिच्छदम् । सिंहासनमधीशस्यान्येषु भद्रासनानि च ॥ २७ ॥ स्थापना । इत्येवं विजयद्वारं, लेशतो वर्णितं मया । तृतीयोपाङ्गमालोक्यं, विशेषविस्तरार्थिभिः ॥ २८ ॥ यो योऽस्याधिपतिर्देवस्तं तं १ द्वाराणामप्रतो भौमानां सत्त्वं न शोभावहं तथैवैकस्यामपि बाहायां, जीवाभिगमे तु जात्यपेक्षया निर्देशः स्यात्, यद्वा वर्णनप्रन्थत्वात् अन्यातिदेश विवक्षया स ग्रन्थः ।
For Private & Personal Use Only
विजयद्वारवर्णनं
२०
२५
२६ ॥१६९॥
jainelibrary.org