SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सामानिकादयः। आह्वयन्ति विजयेति, पुस्तकेषु तथोक्तितः॥ २९॥ तदिदं विजयखामियोगाद्विजयनामकम् । अथवाऽमुष्य नामेदं, कालिकं च शाश्वतम् ॥ ३०॥ एवं क्षेत्रद्वीपवाढिनामानि स्युर्यथायथम् । नित्यानि खामियोगस्तु, यथास्थानं प्रवक्ष्यते ॥ ३१॥ यथेदं विजयद्वारं, तथा त्रीण्यपराण्यपि । समरूपाणि किवीशा, द्वारतुल्याभिधाः सुराः॥३२॥ वैजयन्तो जयन्तश्चापराजित इति क्रमात् । चत्वार्येषां सहस्राणि, सामानिकसुधाभुजाम् ॥ ३३ ॥ सहस्राणि च देवानामष्टाभ्यन्तरपर्षदि । देवानामयुतं मध्यपर्षदि स्फातिशालिनाम् ॥ ३४॥ स्युादश सहस्राणि, देवानां बाह्यपर्षदि । चतस्रोऽग्रमहिष्यश्च, स्युः साहस्रपरिच्छदाः ॥३५॥ सेनाः सेनान्यश्च सप्त, पूर्वोक्तव्यन्तरेन्द्रवत् । आत्मरक्षकदेवानां, सहस्राणि च षोडश ॥३६॥ प्रत्येकमेवं विजयप्रमुखाणां परिच्छदः। सर्वेऽपि विजयाद्यास्ते, तुल्या: पल्यायुषः स्मृताः॥ ३७॥ पूर्वोक्तानां निजनिजनगरीवासिनां च ते । व्यन्तराणां व्यन्तरीणामैश्वर्यमुपभुञ्जते ॥ ३८॥ एवं द्वाराणि चत्वारि, सर्वासु जगतीष्वपि । तत्र जम्बूद्वीपसत्कविजयद्वारनाकिनः॥३९॥ विजयद्वारतःप्राच्यां, दिशि तिर्यगसंख्यकान् । द्वीपाब्धीन् समतिक्रम्य, जम्बूद्वीपेऽस्त्यथापरे ॥४०॥ योजनानां सहस्राणि, द्वादशायतविस्तृता। राजधानी परिक्षेपस्तस्याश्चैवमुदीरितः॥४१॥ सप्तत्रिंशत्सहस्राणि, योजनानां शतानि च । नवैव सप्तचत्वारिंशत् किश्चिदधिकान्यपि ॥४२॥ वो रत्नमयस्तस्या, राजधान्या विराजते । सप्तत्रिंशद्योजनानि, साद्धोनि ससमुच्छ्रितः॥४३॥ तथोक्तं जीवाभिगमे-"से पागारे सत्तत्तीसंजोअणाई अडजोअणं च उडे उच्च SO999999999002020 Jain Educa ww.jainelibrary.org t For Private ional Personal Use Only
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy