SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जे. प्र. २८ Jain Education वज्रतुण्ड कुन्थुरूपैः पीडयन्ति विकुर्वितैः ॥ ७५ ॥ तथोक्तं जीवाभिगमे - "छट्टसत्तमासु णं. पुढवीसु नेरइया महंताई लोहिय कुंथुरुवारं वयरमयतुंडाई गोमय कीडसमाणाई विउद्वित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा २ खाएमाणा २ सयपोराकिमिया इव दालेमाणा २ अंतो २ अणुपविसेमाणा वेयणं उईरेंति" अत्र 'समतुरंगेमाणा २ इति' समतुरंगायमाणाः, अश्वा इवान्योऽन्यमारोहन्त इत्यर्थः 'सयपोराकिमिय'त्ति शतपर्वकृमयःइक्षुकृमयः ॥ प्रथमप्रस्तटे हस्ताः, शतानि पञ्च भूघनम् । शतानि सप्त सार्द्धानि, द्वितीयप्रस्तटे तनुः ॥ ७३ ॥ सहस्रं पाणयः पूर्णास्तृतीयप्रस्तटे वपुः । स्थापना । स्थितिर्जघन्या प्रथमे, स्यात्सप्तदश वार्द्धयः ॥ ७७ ॥ त्रिभागीकृत पाथोधेर्भागद्वयसमन्विताः । उत्कर्षतः स्थितिश्वाद्यप्रस्तटेऽष्टादशान्धयः ॥ ७८ ॥ द्वितीये लघुरेषैव, ज्येष्ठा विंशतिरन्धयः । वार्द्धेस्त्रिधा खण्डितस्य, भागेनैकेन संयुताः ॥ ७९ ॥ इयमेव जघन्येन, तृतीय प्रस्तटे स्थितिः । उत्कर्षतश्च संपूर्णा, द्वाविंशतिपयोधयः ॥ ८० ॥ स्थापना । अवधेर्विषयो ज्येष्ठः सार्द्धगव्यूतिसंमितः । लघीयांश्चैकगच्यूतमानः प्रोक्तोऽत्र तात्त्विकैः ॥ ८१ ॥ अन्तरं मरणोत्पत्योर्जघन्यं समयावधि । चतुष्टयं च मासानामुत्कृष्टं तन्निरूपितम् ॥ ८२ ॥ इति तमःप्रभा पृथ्वी ॥ क्रमात्सप्तखपि नरकेषु वेदना स्थापना । अथ माघवती नाम्ना, सप्तमी कथ्यते मही । या घोरध्वान्तरूपत्वाद्गोत्रात्तमस्तमः प्रभा ॥ ८३ ॥ प्रथमे योजनान्यष्टौ, द्वितीये योजनानि षट् । तृतीये द्वे योजने च वलयाततयः क्रमात् ॥ ८४ ॥ एवं षोडशभिः पूर्णैर्योजनैर्जिन भानुभिः । तमस्तमायाः पर्यन्तादलोकः परिकीर्त्तितः ॥ ८५ ॥ For Private & Personal Use Only १० १४ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy