________________
1
हीना अष्टापि पयः । ततो द्वितीये पाङ्केया, एकषष्टिः प्ररूपिताः ॥ ४४ ॥ तृतीये च त्रिपञ्चाशत्तुरीये प्रस्त दे पुनः । पञ्चचत्वारिंशदेव, सप्तत्रिंशच्च पञ्चमे ॥ ४५ ॥ एवं पङ्किगताः सर्वे, द्विशती पञ्चषष्टियुक् । शेषाः पुष्पावकीर्णास्तु, लक्षयोर्द्वितयं तथा ॥ ४६ ॥ सहसा नवनवतिः, शतानि सप्त चोपरि । पञ्चविंशदिति त्रीणि, लक्षाणि सर्व संख्याया ॥ ४७ ॥ पङ्कप्रभावद्विज्ञेया, द्विधा पीडाsत्र किन्त्विह । स्तोकेषु नरकेषूष्णा, शेषेषु शीतवेदना ॥ ४८ ॥ कराणां दिशती सार्द्धा, प्रथमे प्रस्तटे तनुः । द्वितीये त्रिशती द्वादशोत्तराः द्वादशाङ्गुलाः ॥ ४९ ॥ हस्तस्तृतीये त्रिशती, पञ्चसप्ततिसंयुता । सार्द्धसप्तविंशदाव्या, तुर्ये चतुःशती कराः ॥ ५० ॥ शतानि पञ्च हस्तानां पञ्चमे प्रस्तटे जिनैः । पञ्चमज्ञानपटुभिस्तनुमानं निरूपितम् ॥ ५१ ॥ स्थापना । दशाव्धयो जघन्येन, प्रथमप्रस्तटे स्थितिः । उत्कृष्टा च पञ्चभागीकृतस्य जलधेः किल ॥ ५२ ॥ युक्ता द्वाभ्यां | विभागाभ्यामेकादश पयोधयः । एषैव च जघन्येन, द्वितीय प्रस्तटे भवेत् ॥ ५३ ॥ युग्मम् । ज्येष्ठा चात्र युता भागैश्चतुर्भिर्द्वादशान्धयः । इयमेव जघन्येन, तृतीयप्रतरे स्थितिः ॥ ५४ ॥ उत्कर्षतस्तृतीये च स्युश्चतुर्दश वार्द्धयः । पञ्चभागीकृतस्यान्धेर्भागेनैकेन संयुताः ॥ ५५ ॥ एषा लघुचतुर्थे स्यादुत्कृष्टात्र स्थितिः पुनः । त्रिभिः पूर्वोदितैर्भागैर्युताः पञ्चदशान्धयः ॥ ५६ ॥ पञ्चमेऽशत्रयोपेता, लघुः पञ्चदशान्धयः । उत्कृष्टा च सप्तदश, संपूर्णा जलराशयः ॥ ५७ ॥ स्थापना । केषांचिदाद्यप्रतरे, नारकाणां भवेदिह । नीललेश्या यदुत्कर्षादप्यस्याः स्थितिराहिता ॥ ५८ ॥ पल्योपमासंख्य भागाधिका दश पयोधयः । ततोऽधिकस्थितीनां तु, तेषां कृष्णैव
1
Jain Education national
For Private & Personal Use Only
१०
१४
Wwww.jainelibrary.org