________________
लोकप्रकाशे
नारकाविकारः
सर्गः १४ ॥ १६९ ॥
धयः पराः ॥ २८ ॥ पञ्चमे पञ्चभिर्भागैः, सहाष्टसिन्धवो लघुः । एकेन साप्तिकांशेन, सहोत्कृष्टा नवार्णवाः ॥ २९ ॥ षष्ठे जघन्याः त्वेकांशसंयुक्ताः सागरा नव । चतुर्भिः साप्तिकैर्भागैः सहोत्कृष्टा नवान्धयः ॥ ३० ॥ इयमेव जघन्येन, सप्तमे स्थितिरास्थिता । उत्कर्षतः स्थितिश्चात्र, जिनैरुक्ता दशान्धयः ॥ ३१ ॥ स्थापना । नीला भवेदत्र लेश्या, परमोऽवधिगोचरः । गव्यूतद्वयमध्यर्द्ध, गव्यूतद्वितयं लघुः ॥ ३२ ॥ उत्पत्तेश्चयवनस्यापि नारकाणामिहान्तरम् । मासमेकं भवेज्ज्येष्ठं, जघन्यं समयावधि ॥ ३३ ॥ इति पङ्कप्रभा ।
1
अथ रिष्टाभिधा पृथ्वी, पञ्चमी परिकीर्त्त्यते । या धूमरूपबाहुल्यामप्रभेति गोत्रतः ॥ ३४ ॥ वलयस्येह विष्कम्भः, प्रथमस्य प्ररूपितः । योजनस्य तृतीयांशसंयुता सप्तयोजनी ॥ ३५ ॥ द्वितीयवलये सार्द्धपश्चयोजन - विस्तृतिः । तृतीये च द्वादशांशैर्दशभिः सह योजनम् ॥ ३६ ॥ स्थापना । इत्येवं पञ्चदशभिर्योजनैश्च समन्ततः । स्यादलोकस्तृतीयांशन्यूनै धूमप्रभान्ततः ॥ ३७ ॥ अष्टादशसहस्राढ्यलक्षयोजनसंमितम् । बाहल्य|मस्यामुदितमुदितामितवाङ्मयैः ॥ ३८ ॥ मुक्त्वा सहस्रमेकैकं प्राग्वदत्राप्युपर्यधः । मध्येऽव षोडशसहस्राव्ययोजनलक्षके ॥ ३९ ॥ भवन्ति प्रस्तटाः पञ्च तेषां प्रत्येकमन्तरम् । योजनद्विशती सार्द्धाः, सहस्राः पञ्चविंशतिः ॥ ४० ॥ तेषु प्रत्येकमेकैकः कथितो नरकेन्द्रकः । खात १ स्तमो २ भ्रम ३ श्वान्ध ४ स्तथान्धतमसोऽपि च ५ ॥ ४१ ॥ स्थापना | प्रतिप्रतरमेभ्यश्च, निर्गता अष्ट पङ्कयः । चतस्रो दिग्गतास्तद्वञ्चतस्रः स्युर्विदिग्गताः ॥४२॥ दिपङ्किषु नव नव, भवन्ति नरकाश्रयाः । परास्खष्टाष्ट सर्वाग्रमाथ एकोनसप्ततिः ॥ ४३ ॥ प्रतिप्रतरमेकैक
Jain Education national
For Private & Personal Use Only
धूमप्रभास्वरूपम्
१५
२०
२५
॥ १६१ ॥
२७
ww.jainelibrary.org