________________
Jain Education!
एषैव च द्वितीये स्याज्जघन्या परमा पुनः । वाद्वितयं प्रोक्तरूपैर्भागैरष्टभिरश्चितम् ॥ ८७ ॥ तृतीये तु जघन्याsब्धिवयं भागैः सहाष्टभिः । उत्कर्षतस्त्रिभिर्भागैर्युक्तमब्धिचतुष्टयम् ॥ ८८ ॥ भागत्रयान्वितं तुर्ये, जघन्यान्धिचतुष्टयम् । उत्कर्षतः सप्तभागयुक्तमन्धिचतुष्टयम् ॥ ८९ ॥ एषैव प्रतरे लध्वी, पञ्चमे परिकीर्त्तिता । उत्कर्षतो द्विभागाढ्या, प्रज्ञप्ता पञ्चसागरी ॥ ९० ॥ षष्ठे जघन्यतः पश्चपारावारी द्विभागयुक् । उत्कर्षतः पञ्चपारावारी बडागसंयुता ॥ ९१ ॥ इयमेव जघन्या च सप्तमप्रतरे भवेत् । युक्तान्येकेन भागेन, परमा सागराणि षट् ॥ ९२ ॥ सागराणि षडेकांशसंयुक्तान्यष्टमे लघुः । उत्कृष्टा पट् सागराणि पञ्चभागयुतानि च ॥ ९३ ॥ नवमे पञ्चभागाठ्या, जघन्या षट् पयोधयः । उत्कर्षतः स्थितिश्चात, संपूर्णाः सप्त सागराः ॥ ९४ ॥ प्रथमप्रतरे चाल, केषांचिन्नारकाङ्गिनाम् । कापोतलेश्या सर्वेषु, नीललेश्याऽपरेषु च ॥ ९५ ॥ स्थितिः कापोतले - श्याया भवेदुत्कर्षतोऽपि यत् । पल्योपमासंख्य भागाभ्यधिकं सागरत्रयम् ॥ ९६ ॥ द्वितीयादिप्रस्तटे तु, जघन्यापि न सा स्थितिः । तदाय एव प्रतरे, कापोत्यस्यामिति स्थितम् ॥ ९७ ॥ तत्रापि पल्यासंख्यांशाधिकाम्भोधित्रयावधि । बिभ्रतामायुरेषा स्यान्नीलैवातोऽधिकायुषाम् ॥ ९८ ॥ सजातीयापि लेश्या स्यादधोऽधोऽनुक्रमादिह । क्लिष्टा क्लिष्टतरा क्लिष्टतमा सर्वासु भूमिषु ॥ ९९ ॥ उत्कर्षतोऽवधिक्षेतं, गव्यूतत्रयमत्र च । जघन्यतश्च गव्यूतदयं सार्द्धं तदाहितम् ॥ १०० ॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं भवेत् । दिनानि पञ्चदश तज्जघन्यं समयात्मकम् ॥ १ ॥ इति वालुकाप्रभा ॥
For Private & Personal Use Only
१०
१४
w.jainelibrary.org