________________
लोकप्रकाशे
नारका
धिकारः सर्गः १४
॥१५८।।
Jain Education In
गताः किल ॥४०॥ सहस्राः सप्तनवतिश्चतुवैिशतिलक्षकाः । त्रिशती पञ्चभिर्युक्ता, प्राग्वत्पुष्पावकीर्णकाः॥४१॥ सर्वे च नरकावासा, लक्षाः स्युः पञ्चविंशतिः । वंशायां ज्ञानिभिर्दृष्टा, ज्ञानेन सर्वगामिना ॥ ४२ ॥ स्थापना । एषां संस्थानमुञ्चत्वं, स्वरूपं वेदनादिकम् । रत्नप्रभावद्विज्ञेयं, त्र्यस्त्राद्यनुक्रमोऽपि च ॥ ४३ ॥ षडङ्गुलाधिका एकत्रिंशत्करा वपुर्भवेत् । प्रथमप्रस्तटे वंशापृथिव्यां नारकाङ्गिनाम् ॥ ४४ ॥ द्वितीये च चतुस्त्रिंशत्करा नवा - कुलाधिकाः । द्वादशाङ्गुलयुक् सप्तत्रिंशत्करास्तृतीयके ॥ ४५ ॥ चत्वारिंशत्करास्तुर्येऽधिक पञ्चदशाङ्गुलाः । पञ्चमे ते विचत्वारिंशत् सहाष्टादशाङ्गुलाः ॥४६॥ कराणां सप्तचत्वारिंशद्विहीनाङ्गुलैस्त्रिभिः । षष्ठेऽथ सप्तमे पूर्णाः, कराः पञ्चाशदाहिताः ॥ ४७ ॥ अष्टमे विपंचाशत्कराख्यङ्गुलशालिनः । नवमेऽकुलबकाव्याः, षट्पञ्चाशकरा मताः ॥ ४८ ॥ एकोनषष्टिर्हस्तानां दशमे सनवाङ्गलाः । एकादशे च द्वाषष्टिः, कराः सद्वादशाङ्गुलाः ॥ ४९ ॥ स्थापना | स्थितिर्जघन्याऽस्यामाद्येऽम्बुधिमानाऽपरा तु सा । कृतैकादश भागस्याम्बुधेर्भागद्वयान्विता ॥ ५० ॥ द्वितीयमस्त लघ्वी, द्विभागसहितोऽम्बुधिः । उत्कृष्टा चैकादशांशैश्चतुर्भिरधिकोऽम्बुधिः ॥ ५१ ॥ तृतीये प्रस्तटे वार्द्धिश्वतुर्भागयुतो लघुः । षड्तिर्भागैर्युतश्चान्धिः, उत्कृष्टा स्थितिराहिता ॥ ५२॥ जघन्या प्रस्तटे तुर्ये, षड्भागयुतवारिधिः । उत्कृष्टा चाष्टभिर्भागैर्युक्त एकः पयोनिधिः ॥ ५३ ॥ पञ्चमेऽल्पीयसी भागैरष्टभिः सह वारिधिः । गरीयसी चात्र भागैर्दशभिः सह तोयधिः ॥ ५४ ॥ दशभागान्वितश्चान्धिः, षष्ठे तु स्याज्जघन्यतः । उत्कर्षतश्चैकभागसंयुक्तं सागरद्वयम् ॥ ५५ ॥ सागरद्वयमेकांश संयुक्तं सप्तमे लघुः । त्रिभिरेकादशां
।
For Private & Personal Use Only
शर्कराप्रभास्वरूपम्
२०
२५
॥ १५८ ॥
२८
ainelibrary.org