________________
योजनानि, पञ्च मानं द्वितीयके। योजनं योजनस्य द्वादशांशाः सप्त चान्तिमे ॥ २५॥ त्रयोदशभिरित्येवं,
तृतीयभागवजितैः। अलोकः शर्करापृथ्वीपर्यन्तात्किल योजनः ॥ २६ ॥ स्थापना । एकं लक्षं योजनानां, 18सद्वात्रिंशत् सहस्रकम् । अस्या बाहल्यमादिष्टं, विशिष्टज्ञानशालिभिः॥ २७ ॥ मुत्तवैकैकं सहस्रं च, प्राग्वद
स्यामुपर्यधः । एकलक्षे योजनानां, सहस्रस्त्रिंशतान्विते ॥ २८॥ एकादश प्रस्तटाः स्युस्तेषां प्रत्येकमन्तरम् । योजनानां सहस्राणि, नव सप्त शतानि च ॥ २९ ॥ प्रतिप्रतरमेकैको, भवेच्च नरकेन्द्रकः । मध्यभागेऽथ नामानि, तेषां ज्ञेयान्यनुक्रमात् ॥ ३०॥ धनिको १ धनकश्चैव २, मनको ३ वनकस्तथा ४ । घट्ट ५ संघ६ जिह्वाख्या ७ वपजिह्वस्तथापरः८॥३१॥ लोलश्च ९ लोलावतश्च १०, घनलोल ११ स्तथैव च । प्रतिप्रतर-| मेभ्योऽष्टावष्टौ स्युनेरकालयः॥ ३२॥ तत्राद्यप्रतरमध्यनरकादावली प्रति । षट्त्रिंशदिक्षु नरकाः, पञ्चत्रिंशद्विदिक्षु च ॥३३॥ प्रथमे पङ्किगाः पञ्चाशीतियुक्तं शतद्वयम् । द्वितीयादिषु चैकैकहीनाः स्युः सर्वपङयः॥३४॥ द्वितीयप्रतरे तस्माद् , द्विशती सप्तसप्ततिः। तृतीये पङ्किनरका, द्विशत्येकोनसप्ततिः ॥ ३५ ॥ चतुर्थे पङ्किनरका, वे शते सैकषष्टिके । पञ्चमे द्विशती तेषां, त्रिपञ्चाशत्समन्विता ॥३६॥ पञ्चचत्वारिंशदाये, द्वे शते ।। षष्ठ ईरिताः । सप्तमप्रस्तटे सप्तत्रिंशताऽऽळ्या शतद्वयी ॥ ३७॥ एकोनत्रिंशदधिके, द्वे शते प्रस्तटेष्टमे । |एकविंशत्यधिके च, हे शते नवमे मता॥३८॥ शतद्वयं च दशमे, त्रयोदशाधिकं भवेत् । एकादशे प्रस्तटे च, पञ्चोत्तर शतद्वयम् ॥ ३९॥ षडर्विशतिः शतानि स्यनवतिः पञ्चभियुता । वंशायां नरकावासाः, स
2029292e20299999992920
in Educatio
nal
For Private Personel Use Only
w.jainelibrary.org