SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ र लोकप्रकाशे नारका रत्नप्रभाखरूपम् धिकारः सर्ग:१४ ॥१५॥ नवतिर्लक्षाः, पूर्वकोटिस्तथैव च । तृतीयप्रतरे ज्ञेया, जघन्योत्कर्षतः स्थितिः॥ १० ॥ जघन्या पूर्वकोट्येका, चतुर्थप्रतरे स्थितिः। दशभागीकृतस्यैको, भागोऽब्धेः परमा पुनः॥११॥ एको भागः पश्चमे च, जघन्योत्कर्षतः पुनः । स्यातां द्वौ दशमौ भागौ, तो षष्ठे च जघन्यतः॥१२॥ उत्कर्षतश्च षष्ठे स्युस्त्रयो भागास्त एव च । जघन्यतः सप्तमे स्युरुत्कर्षात्तच्चतुष्टयम् ॥ १३ ॥ जघन्यतोऽष्टमे भागाश्चत्वार एव तादृशाः। उत्कर्षतश्चाष्टमे स्युर्भागाः पञ्च पयोनिधेः ॥ १४ ॥ पञ्चैव भागास्तादृक्षा, नवमे तु जघन्यतः । उत्कर्षान्नवमे षट् ते, दशमे षड् जघन्यतः ॥ १५ ॥ उत्कर्षाद्दशमे सप्सैकादशे ते जघन्यतः । एकादशेऽष्ट चोत्कर्षाद, द्वादशेऽष्ट | जघन्यतः॥१६॥ द्वादशे पुनरुत्कर्षान्नव भागास्त्रयोदशे। नव भागा जघन्येनोत्कर्षतः सागरोपमम् ॥१७॥ स्थापना । अस्यां लेश्या च कापोती, जघन्योऽवधिगोचरः। गव्यूतानां त्रयं साई, परस्तेषां चतुष्टयम् ॥१८॥ उत्पद्यन्ते च्यवन्ते च, सर्वदा नारका इह । कदाचिद्विरहोऽपि स्याजघन्यः समयं स च ॥ १९॥ उत्कर्षतो मुहर्तानां, चतुर्विंशतिराहिता । सर्वासां समुदाये च, मुहर्ता द्वादशान्तरम ॥२०॥ एकेन समयेनैकादयोऽ. संख्यावसानकाः। उत्पद्यन्ते च्यवन्तेऽस्यामेवं सर्वक्षितिष्वपि ॥ २१ ॥ इति रत्नप्रभापृथिवी ॥ ___ अथ वंशामिधा पृथ्वी, द्वितीया परिकीर्त्यते । या शर्कराणां बाहल्याद्गोत्रेण शर्कराप्रभा ॥ २२ ॥ घनो ध्यादिकं सर्व, ज्ञेयमत्रापि पूर्ववत् । घनोदध्यादिवलयविष्कम्भस्तु विशिष्यते ॥ २३ ॥ स चैवं-योजनैकतृतीयांशयुतानि योजनानि षट् । वंशायामाद्यवलये, विष्कम्भः परिकीर्तितः ॥ २४ ॥ पादोनानि २५ | ॥१५७॥ २८ Jain Educa t ional For Private Personel Use Only YMw.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy