SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ भगवती शत०१८ पञ्चमोद्देशके । मनोदुःखापेक्षया तु, सदृशो भूरिवेदनाः। यदेते पूर्वकर्माणि, शोचन्ति न तथा परे ॥७१॥ तथाहु:-"तत्थ णं जे ते सन्निभूया ते णं महावेअणा, तत्थ णं जे ते असन्निभूया ते णं अप्पवेअणतरागा" अत्र 'सन्निभूय'त्ति संज्ञा-सम्यग्दर्शनं तद्वन्तो भूताः, यद्वा पूर्वभवे संज्ञिपञ्चेन्द्रियाः सन्तो नारकत्वं प्राप्ताः, अथवा संज्ञीभूताः-पर्याप्तकीभूताः, तद्विपरीताः सर्वत्रासंज्ञीभूताः, इति भगवतीशत०१ द्वितीयोद्देशके । तप्तायःपुत्रिकाश्लेषः, संतसत्रपुपायनम् । अयोधनादिघाताचारोपणं कूटशाल्मली ॥७२॥ क्षते क्षारोष्णतैलादिक्षेपणं भ्राष्ट्रभर्जनम् । कुन्तादिपोतनं यत्रे, पीडनं च तिलादिवत् ॥७३ ॥ क्रकचेः पाटनं तप्तवालुकाखवतारणम् । वैक्रियोलूकहर्यक्षकङ्कादिभिः कदर्थनम् ॥ ७४ ॥ प्लावनं वैतरण्यां च, योधनं कुर्कुटादिवत् । प्रवेशनं चासिपत्रवने कुम्भीषु पाचनम् ॥ ७९ ॥ परमाधार्मिकैः क्लृप्ता, इत्याद्या विविधा व्यथाः। वेदयन्ते नारकास्ते, दुष्कर्मवशवर्तिनः ॥ ७६ ॥ यदाहु:-"श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासाछेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णाघातत्रिशूलविभेदन, दहनवदनैः कङ्क|रैः सहन्ति च भक्षणम् ॥७७॥ (हरिणी) छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषविच्युभिः परिवृताः संभक्षणव्यापृतैः। पाट्यन्ते क्रकचेन दारुवदसिप्रच्छिन्नबाहुदया,कुम्भीषु त्रपुपानदग्धतनवोमूषासु चान्तर्गताः ॥७८॥(शार्दूल.)भृज्यन्ते ज्वलदम्बरीषहुतभुगज्वालाभिरारावणः, दीप्ताङ्गारनिभेषु वनभवनेष्वङ्गारके पूत्थिताः। दह्यन्ते विकृतोद्धुबाहुवदनाः क्रन्दन्त आर्त्तखराः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् । in Educh an indb a For Private & Personal Use Only l inelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy