SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे नारका धिकारः सर्गः १४ ॥ १५५ ॥ Jain Education पानेऽपि नोपशाम्यति कर्हिचित् ॥ ६० ॥ क्षुरिकाद्यैरप्यजय्या, कण्डूदेहेऽतिदुःखदा । अनन्तगुणितोऽत्रत्याद्यावज्जीवं ज्वरस्तथा ॥ ६१ ॥ अनन्तघ्नं पारवश्यं, दाहशोकभयाद्यपि । कष्टं विभङ्गमप्येषां वैरिशस्त्रादिदर्शनात् ॥ ६२ ॥ तत्रत्यक्ष्माम्भोऽग्निमरुद्दुमस्पर्शोऽतिदुःखदः । अग्निस्त्वत्रोपचरितः, क्ष्मादिकायास्तु वास्तवाः ॥ ६३ ॥ तथोक्तं - " रयणप्पभापुढविणेरहआ णं भंते ! केरिसयं पुढविकासं पचणुग्भवमाणा विहरंति ?, गो० ! अहिं जाव अमणामं, एवं जाव अहे सत्तमापुढविणेरइआ, एवं आउफासं, जाव वणस्सइफासं,” इति भगवत्यां श० १३ उ० ४ सूत्रे । इत्येवं विविधा तेषु वर्त्तते क्षेत्रवेदना । मिथ्यादृशां नारकाणां परस्परकृतापि सा ॥ ६४ ॥ | तथाहि - दूरादन्योऽन्यमालोक्य, श्वानः श्वानमिवापरम् । ते युद्ध्यन्ते ससंरम्भं, ज्वलन्तः क्रोधवह्निना ॥ ६५ ॥ विधाय वैक्रियं रूपं, शस्त्रैः क्षेत्रानुभावजैः । पृथ्वीरूपैर्वैक्रियैर्वा, कुन्तासितोमरादिभिः ॥ ६६ ॥ करांहिदन्ताघातैश्च ते निघ्नन्ति परस्परम् । भूमौ लुठन्ति कृत्ताङ्गाः, शूनान्तर्महिषादिवत् ॥ ६७ ॥ परोदीरितदुःखानि, सहन्ते नापरेषु ते । उदीरयन्ति सम्यक्त्ववन्तस्तत्त्वविचारणात् ॥ ६८ ॥ अत एव खल्पपीडाः, खल्पकर्माण एव च । मिथ्यादृग्भ्यो नारकेभ्यो, नारकाः शुद्धदृष्टयः ॥ ६९ ॥ मिथ्यादृशस्तु क्रोधेनोदीरयन्तः परस्परम् । पीडाः कर्माण्यर्जयन्ति भूयांसि भूरिवेदनाः ॥ ७० ॥ तथाहुः - "नेरइया दुविहा प०, तं०-माइमिच्छदिट्ठीउ| ववण्णगाय अमाइसम्मदिट्ठीउववण्णगा य, तत्थ णं जे से माइमिच्छदिट्ठी से णं महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जे से अमाइसम्मदिट्ठी से णं अप्पकम्मतराए चेव अप्पवेअणतराए चेव.” tional For Private & Personal Use Only नारकवेदना २० २५ ॥ १५५ ॥ २८ ww.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy