SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ॥ ४४ ॥ वर्णः सर्वनिकृष्टोऽतिभीषणो मलिनस्तथा । नित्यान्धतमसा ह्येते द्वारजालादिवर्जिताः ॥ ४५ ॥ किञ्चामी श्लेष्मविण्मूत्र कफाद्यालिप्तभूतलाः । मांसकेशनखदन्तचर्मास्तीर्णाः श्मशानवत् ॥ ४६ ॥ कुथितञ्चाहिमार्जार मृतकेभ्योऽपि दारुणः । गन्धस्तत्र रसो निम्बघोषातक्यादितः कटुः ॥ ४७ ॥ स्पर्शो वह्निवृश्चिकादिस्पर्शादप्यतिदारुणः । परिणामोऽगुरुलघुरप्यतीव व्यथाकरः ॥ ४८ ॥ शब्दोऽपि सततं पीडाक्रान्तानामतिदा|रुणः । विलापरूपः श्रवणादपि दुःखैककारणम् ॥ ४९ ॥ कुज्येषु वाज्रिकेष्वत्र, सन्ति वातायनोपमाः । अचित्ता योनयस्तासुत्पद्यन्ते नारकाः किल ॥ ५० ॥ इत्यर्थतस्तत्त्वार्थवृत्तौ । तथा शीतोष्णक्षुत्पिपासाख्याः, कण्डूश्च परतन्त्रता । ज्वरो दाहो भयं शोकस्तत्रैता दश वेदनाः ॥ ५१ ॥ माधरात्रौ शीतवायाँ, हिमाद्रौ खेऽभ्रवर्जिते । निरग्नेर्वात विकृतेर्दुः स्थपुंसो निरावृतेः ॥ ५२ ॥ तुषारकण सिक्तस्य, या भवेच्छीत वेदना । तेभ्योऽप्यनन्तगुणिता, तेषु स्याच्छीतवेदना ॥ ५३ ॥ तेभ्यः शीतवेदनेभ्यो नरकेभ्यश्च नारकाः । यथोक्तपुरुषस्थाने, स्थाप्यन्ते यदि ते तदा ॥ ५४ ॥ प्राप्नुवन्ति सुखं निद्रां निर्वातस्थानगा इव । अथोष्णकाले मध्याह्ने, निरभ्रे वियदङ्गणे ॥ ५५ ॥ पुंसः पित्तप्रतप्तस्य, परितो ज्वलनस्पृशः । योष्णपीडा ततोऽनन्तगुणा ते पूष्णवेदना ॥ ५६ ॥ तथेोष्णवेदनेभ्यस्ते, नरकेभ्यश्च नारकाः । उत्पाट्य किंशुकाकारखदिराङ्गारराशिषु ॥ ५७ ॥ ध्मायन्ते यदि निक्षिप्य, तदा ते चन्दनद्रवैः । लिप्ता इवात्यन्तसुखान्निद्रां यान्ति क्षणादपि ॥ ५८ ॥ सदा क्षुद्वहिना दह्यमानास्ते जगतोऽपि हि । घृतान्नादिपुद्गलौचैर्न तृप्यन्ति कदाचन ॥ ५९ ॥ तेषां पिपासा तु तालुकण्ठ जिह्वादिशोषणी । सकलाम्भोधि Jain Education national For Private & Personal Use Only Deser १० १४ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy