SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Education I त्रिशती सप्तमे मता । त्रिशती च त्रयस्त्रिंशत्, त्रिशती पश्चविंशतिः ॥ १५ ॥ त्रिशती सप्तदश च त्रिशती स्यान्नवोत्तरा । एकाधिका च त्रिशती, प्रतरेष्वष्टमादिषु ॥ १६ ॥ त्रयोदशेऽथ प्रतरे, आवलीनरकालयाः । त्रिनवत्यधिके प्रोक्ते, द्वे शते तस्ववेदिभिः ॥ १७ ॥ शेषाः पुष्पावकीर्णाः स्युः, पतीनामन्तरेषु ते । सर्वेष्वपि प्रतरेषु, विकीर्णकुसुमघवत् ॥ १८ ॥ चत्वारि स्युः सहस्राणि तावन्त्येव शतानि च । त्रयस्त्रिंशच घर्मायामावलीनरकायाः ॥ १९ ॥ एकोनत्रिंशल्लक्षाणि शतानि पञ्च चोपरि । सहस्राः पञ्चनवतिः, सप्तषष्टिः प्रकीपूर्णकाः ॥ २० ॥ त्रिंशल्लक्षाच निखिला, धर्मायां नरकालयाः । सर्वेऽपि चैतेऽन्तर्वृत्ता, बहिश्च चतुरस्रकाः ॥ २१ ॥ यदुक्तं प्रज्ञापनायां- 'ते णं णरगा अंतो वहा बाहिं चउरंसा' इति, स्थापना । पीठादि सर्वं चापेक्ष्य, वृत्ताः स्युः केऽपि केऽपि च । व्यस्राश्च चतुरस्राश्च, पाङ्केया नरकालयाः ॥ २२ ॥ वृत्ता एव भवन्त्यत्र, सर्वेऽपि नरकेन्द्रकाः । ततञ्चानन्तरं व्यस्रा, नूनमष्टासु पङ्गिषु ॥ २३ ॥ चतुरस्रास्ततो वृत्ताख्यस्राश्चेति यथाक्रमम् । ज्ञेयाः पुष्पावकीर्णास्तु, नानासंस्थान संस्थिताः ॥ २४ ॥ योजनानां सहस्राणि त्रीणि सर्वेऽपि चोच्छ्रिताः । अधोमु वन्यस्तकुण्डाकाराः कारागृहोपमाः ॥ २५ ॥ योजनानां सहस्रं च, पीठे बाहल्यमीरितम् । सहस्रमेकं शुषिरं, स्तूपिकैक सहस्रिका ॥ २६ ॥ यदुक्तं - "हेट्ठा घणा सहस्सं, उपिं संकोयओ सहस्सं तु । मज्झे सहस्सझुसिरा, तिन्निसहस्सूसिया निरया ॥ २७ ॥" स्थापना । संख्यातयोजनाः केऽपि, परेऽसंख्यातयोजनाः । विस्ताराद्दैर्घ्यत - वापि, प्रज्ञप्ता नरकालयाः ॥ २८ ॥ सर्वाखपि पृथिवीषु तादृशाः किंतु मानतः । सीमन्तकः पञ्चचत्वारिंशद्योजन For Private & Personal Use Only १४ Jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy