________________
कालवाथ महाकालोऽञ्जनश्च रिष्ठ एव च । स्युलोकपाला वेलम्बप्रभञ्जन सुरेन्द्रयोः ॥ ७३ ॥ मरुन्तरङ्गेणैकेन, जम्बूद्वीपं प्रपूरयेत् । वेलम्बेन्द्रः सातिरेकं तं पूरयेत्प्रभञ्जनः ॥ ७४ ॥ इन्द्रौ घोषमहाघोषौ, स्तनिताख्यकुमारयोः । खर्णवर्णी शुक्लवस्त्रौ, वर्द्धमानाङ्कभूषणौ ॥ ७५ ॥ आवर्त्तो व्यावर्त्तनामा, नन्द्यावर्त्तस्तथापरः । महानन्द्यावर्त्त एते, लोकपालाः स्युरेतयोः ॥ ७६ ॥ स्तनितध्वनिनैकेन, बधिरीकर्त्तुमीश्वरः । घोषो जम्बूद्वीपमेनं, महाघोषस्तु साधिकम् ॥ ७७ ॥ एवं सर्वनिकायेषु, देवा दश दशाधिपाः । दाक्षिणात्योत्तराहेन्द्रौ, लोकपालास्तथाऽष्ट च ॥ ७८ ॥ एवं च धरणेन्द्राद्या, इन्द्रा अष्टादशाप्यमी । स्खैः खैः सामानिकैस्त्रायस्त्रिंशकैलोकपालकैः ॥ ७९ ॥ पार्षदैस्त्रिविधैरग्रमहिषीभिरुपासिताः । सेनानीभिस्तथा सैन्यैः समन्तादात्मरक्षकैः ॥ ८० ॥ दाक्षिणात्योदीच्यनिज निकायजैः परैरपि । सेविताः खखभवनलक्षाणां दधतीशताम् ॥ ८१ ॥ त्रिभिर्विशेषकम् ॥ रूपलावण्य सौभाग्यादिभिस्तु चमरेन्द्रवत् । महर्दिका महासौख्या, महाबला महोदयाः ॥ ८२ ॥ एकं जम्बूद्वीपमेते, रूपैः पूरयितुं क्षमाः । खजातीयैर्नवैस्तिर्यक संख्येयद्वीपवारिधीन् ॥ ८३ ॥ एवं सामानिकास्वायस्त्रिंशका लोकपालकाः । एषामग्र महिष्योऽपि कर्त्तुं विकुर्वणां क्षमाः ॥ ८४ ॥ अल्पाल्पकान् किंतु तियेक, द्वीपान्धीन् पूरयन्त्यमी । प्राच्यपुण्यप्रकर्षाप्तस्वस्खलब्ध्यनुसारतः ॥ ८५ ॥ तथाहु: - 'घरणे णं भंते ! नागकुमारिंदे नागकुमारराया' इत्यादि भगवतीसूत्रे । जम्बूद्वीपं मेरुमूर्ध्नि, धृत्वा छत्राकृतिं क्षणात् । कर्त्तुमेषामन्यतमः, क्षमः खबललीलया ॥८६॥ इयं प्रत्येकं प्रागुक्ता चैषा शक्तिर्देवेन्द्रस्तवे ॥ शक्तेर्विषय एवायं, नाक
Jain Educatinational
For Private & Personal Use Only
१०
१४
www.jainelibrary.org