________________
लोकप्रकाशे १३ सर्गेः
॥ १५१ ॥
Jain Education
सुपर्णराट् ॥ ५६ ॥ इन्द्रौ विद्युत्कुमारेषु, हरिकान्तहरिस्सहौ । तप्तखर्णारुणौ नीलाम्बरौ वज्राङ्कभूषणौ ॥ ५७ ॥ प्रभस्तथा सुप्रभश्व, प्रभाकान्तस्तथापरः । सुप्रभाकान्त इत्येते, लोकपालाः स्युरेतयोः ॥ ५८ ॥ एकया विद्युता जम्बूद्वीपं हरिः प्रकाशयेत् । विद्युत्कुमाराधिपतिः साधिकं तं हरिस्सहः ॥ ५९ ॥ स्यातामग्निकुमारेन्द्रावग्निशिखाग्निमाणवौ । तप्तखर्णतन् नीलवस्त्रौ कुम्भाङ्कभूषणौ ॥ ६० ॥ तेजस्तेजः शिखस्तेजः कान्तस्तेजः प्रभोऽपि च । एतयोः स्युलोकपाला, विशिष्टोत्कृष्टबुद्धयः ॥ ६१ ॥ एकाग्निज्वाल्या जम्बूद्वीपं लोषयितुं क्षमः । सुरेन्द्रोऽग्निशिखस्तं सातिरेकमग्निमाणवः ॥ ६२ ॥ इन्द्रौ द्वीपकुमाराणां पूर्णो वसिष्ट इत्युभौ । तप्तस्वर्णप्रभौ नीलक्षौमौ सिंहाङ्कभूषणौ ॥ ६३ ॥ रूपो रूपांशश्च रूपकान्तो रूपप्रभोऽपि च । लोकपाला अमी द्वीपकुमार चक्रवर्त्तिनोः ॥ ६४ ॥ जम्बूद्वीपं हस्ततलेनैकं स्थगयितुं क्षमः । पूर्णो द्वीपकुमारेन्द्रो, वसिष्टस्तं च साधिकम् ॥ ६५ ॥ अथोदधिकुमारेन्द्रौ जलकान्तजलप्रभौ । शुक्लती नीलवस्त्रावश्वरूपाङ्कभूषणौ ॥ ६६ ॥ जलश्च जलरूपश्च जलकान्तो जलप्रभः । लोकपालाः स्युरुदधिकुमारसुरराजयोः ॥ ६७ ॥ एकेनाम्बुतरङ्गेण, जम्बूद्वीपं प्रपूरयेत् । जलकान्तः सुराधीशः, साधिकं तं जलप्रभः ॥ ६८ ॥ दिक्कुमारेशावमितगतिश्चामितवाहनः । स्वर्णगौरी शुभ्रवस्त्रौ, गजरूपाङ्कभूषणौ ॥ ६९ ॥ एतयोस्त्वरितः क्षिप्रः, सिंहश्च सिंहविक्रमः । चत्वारो गत्युपपदा, लोकपालाः प्रकीर्त्तिताः ॥ ७० ॥ एकपाणिप्रहारेण, जम्बूद्वीपं प्रकम्पयेत् । इन्द्रोऽमितगतिः सातिरेकं त्वमितवा - हनः ॥ ७१ ॥ इन्द्रौ वायुकुमारेषु, वेलम्बाख्यप्रभञ्जनौ । श्यामौ संध्यारागवस्त्रौ, मकराङ्कितभूषणौ ॥ ७२ ॥
For Private & Personal Use Only
शेपदक्षि गोचरेन्द्रा
दिवर्णनं
२०
२५
॥ १५१ ॥
२८
jainelibrary.org