________________
Jain Education
शक्तिरेषां पञ्चमाङ्गे प्रकीर्त्तिता ॥ ४२ ॥ भ० १४,८ । लोकान्तिकविमानेषु, देवानामष्ट वार्द्धयः। स्थितिरुक्ता जिनैरेते, | पुण्यात्मानः शुभाशयाः ॥ ४३ ॥ एकावताराः सिद्ध्यन्ति भवे भाविनि निश्चितम् । अष्टावतारा अप्येते, निरू| पिता मतान्तरे ॥ ४४ ॥ तन्मतद्वयं चैवं लोकान्ते - लोकाग्रलक्षणे सिद्धिस्थाने भवा लोकान्तिकाः, भाविनि भूतवदुपचारन्यायेन एवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवर्त्तिनः, लोकान्ते भावित्वं तेषामनन्तरभवे एव सिद्धिगमना" दिति स्थानाङ्गवृत्तौ ९ स्थानके “श्रीब्रह्मलोके प्रतरे तृतीये, लोकान्तिकास्तत्र | वसन्ति देवाः । एकावताराः परमायुरष्टौ भवन्ति तेषामपि सागराणि ॥ १ ॥” इति श्रेणिक चरित्रे । “अट्ठेव सागराई परमाउं होइ सङ्घदेवाणं । एगावयारिणो खलु देवा लोगंतिया नेया ॥ १ ॥” इति प्रवचनसारोद्वारे, तत्त्वार्थटीकायामपि - लोकान्ते भवा लोकान्तिकाः अत्र प्रस्तुतत्वाद्ब्रह्मलोक एवं परिगृह्यते, तदन्तनिवासिनो लोकान्तिकाः, सर्वब्रह्मलोकदेवानां लोकान्तिकप्रसङ्ग इति चेन्न, लोकान्तोपश्लेषात्, जरामरणादिज्वालाकीर्णो वा लोकस्तदन्तवर्त्तित्वाल्लोकान्तिकाः कर्मक्षयाभ्यासीभावाच्चेति, लब्धिस्तोत्रे तु - सङ्घढचुआ चउकयआहारगुवसमगजिणगणहराई । निअमेण तन्भवसिवा सत्तट्टभवेहिं लोगंती ॥ १ ॥”
अथोर्ध्व ब्रह्मलोकस्य, समपक्षं समानदिक । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ ४५ ॥ विभाति लान्तकः स्वर्गः, पञ्चप्रतरशोभितः । प्रतिप्रतरमेकैकेनेन्द्र केण विराजितः ॥ ४६ ॥ प्रथमप्रतरे तत्र, बलभद्राख्यमिन्द्रकम् । चक्रं गदा खस्तिकं च नन्द्यावर्त्तमिति क्रमात् ॥ ४७ ॥ प्रतिप्रतरमेतेभ्यः पङ्कयोऽपि चतुर्दिशम् ।
national
For Private & Personal Use Only
१०
१४
jainelibrary.org