________________
लोकप्रकाशे तृतीयाद्या
देवलोकाः ॥३५२॥
Jain Education In
ब्रह्मलोकान्तभावित्वाल्लोकांतिकान्यमून्यथ । लोकान्तिकानां देवानां संबन्धीनि ततस्तथा ॥ २७ ॥ नवाप्येते विमानाः स्युर्घनवायुप्रतिष्ठिताः । वर्णादिभिश्च पूर्वोक्तब्रह्मलोकविमानवत् ॥ २८ ॥ संस्थानं नैकधाऽमीषामपाङ्क्तेयतया खलु । एभ्यो लोकान्तः सहस्रैयजनानामसंख्यकैः ॥ २९ ॥ एतेष्वथ विमानेषु, निवसन्ति यथाक्रमम् । सारखतास्तथाऽऽदित्या वह्नयो वरुणा अपि ॥ ३० ॥ गर्दतोयाश्च तुषिता, अव्यावाघास्तथाऽपरे । आग्नेया अथ रिष्ठाश्च, लोकान्तिक सुधाभुजः ॥ ३१ ॥ अत्राग्नेयाः संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते ॥ स्वत एवावबुद्धानामनुत्तरचिदात्मनाम् । विज्ञाय दीक्षावसरं दित्सूनां दानमादिकम् ॥ ३२ ॥ प्रव्रज्यासमयादर्वाक, संवत्सरेण तत्क्षणम् । श्रीमतामर्हतां पादान्तिकमेत्य तथास्थितेः ॥ ३३ ॥ विमानयानादुत्तीर्य, सोत्साहाः सपरिच्छदाः । सारखतप्रभृतयः, सर्वे लोकान्तिकाः सुराः ॥ ३४ ॥ विज्ञा विज्ञपयन्त्येवं, जय नन्द ! जगद्गुरो ! | त्रैलोक्यबंधो ! भगवन्!, धर्मतीर्थं प्रवर्त्तय ॥ ३५ ॥ चतुर्भिः कलापकं ॥ यदेतत्सर्वलोकानां सर्वलोके भविष्यति । मुक्तिराजपथीभूतं, निःश्रेयसकरं परम् ॥३६॥ इह सारखतादित्यद्वये समुदितेऽपि हि । सप्त देवाः सप्त देवशतानि स्यात्परिच्छदः ॥ ३७ ॥ एवं वह्निवरुणयोः, परिवारश्चतुर्दश । देवास्तथाऽन्यानि देवसहस्राणि चतुर्दश ॥ ३८ ॥ गर्द्दतोयतुषितयोर्द्वयोः संगतयोरपि । सप्त देवाः सप्त देवसहस्राणि परिच्छदः ॥ ३९ ॥ अन्याबाधाग्नेयरिष्ठदेवानां च सुरा नव । शतानि नव देवानां परिवारः प्रकीर्त्तितः ॥ ४० ॥ अव्याबाधाश्चैषु देवाः, पुरुषस्याक्षिपक्ष्मणि । दिव्यं द्वात्रिंशत्प्रकारं, प्रादुष्कुर्वन्ति ताण्डवम् ॥ ४१ ॥ तथापि पुरुषस्यास्य, बाधा काऽपि न जायते । एवंरूपा
For Private & Personal Use Only
लोकान्ति
काः
२०
२५
॥३५२॥
२८
Inelibrary.org