________________
५
भगवतीसूत्रे ६.५। यद्यप्यत्र नरक्षेत्रावहिर्नाङ्गीकृतं श्रुते । घनगर्जितवृष्ट्यादि, तथापि स्यात्सुरोद्भवम् ॥ ८२॥ यथा नराः स्वभावेन, लवितुं मानुषोत्तरम् । नेशा विद्यालब्धिदेवानुभावाल्लङ्घयन्त्यपि ॥८३॥ अत्रोक्ता विद्युतो याश्च, भाखरास्तेऽपि पुद्गलाः। दिव्यानुभावजा ज्ञेया, बादराग्नेरभावतः॥८४॥ तथाहु:-"इह न बादरास्तेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमानत्वात्, किंतु देवप्रभावजनिता भाखराः पुद्गला" इति भग|वतीवृत्तौ । तथा नात्र तमस्काये, देशग्रामपुरादिकम् । नाप्यत्र चन्द्रचण्डांशुग्रहनक्षत्रतारकाः॥८५॥ येऽप्य- त्रासन्नचन्द्रार्ककिरणास्तेऽपि तामसैः। मलीमसा असत्पाया, दुर्जने सद्गुणा इव ॥८६॥ अत एवातिकृष्णोऽयमगाधश्च भयङ्करः।रौद्रातिरेकात्पुलकोद्रेदमालोकितः सृजेत् ॥ ८७॥ आस्तामन्यः सुरोऽप्येनं, पश्यन्नादौ प्रकम्पते । ततः स्वस्थीभूय शीघ्रगतिरेनमतिव्रजेत् ॥ ८८॥ तम १ श्चैव तमस्कायोऽ २धकारः ३ स महादिकः ४। लोकान्धकारः५ स्यालोकतमिनं ६ देवपूर्वकाः ॥८९॥ अन्धकार ७स्तमित्रं ८चारण्यं ९च व्यूह १० एव च । परिघश्च ११ प्रतिक्षोभो १२ऽरुणोदो वारिधिस्तथा १३ ॥९०॥ त्रयोदशास्य नामानि, कथितानि जिनैः श्रुते । तत्र लोकेऽद्वितीयत्वाल्लोकान्धकार उच्यते ॥९१॥ न हि प्रकाशो देवानामप्यत्र प्रथते 8 मनाक । देवान्धकारोऽयं देवतमिस्रं च तदुच्यते ॥९२॥ बलवद्देवभयतो, नश्यतां नाकिनामपि । अरण्यवच्छरण्योऽयं, देवारण्यं तदुच्यते ॥ ९३ ॥ दुर्भेदत्वाद्वयूह इव, प्रतिक्षोभो भयावहः । गति रुन्धन परिघवत्, देवव्यूहादिरुच्यते ॥ ९४ ॥ अरुणोदाम्भोधिजलविकारत्वात्तथाभिधः। एवमन्वर्थता नानामन्येषामपि भाव्य
Jain Education intonal
For Private & Personel Use Only
H
ainelibrary.org