SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे तृतीयाद्या देवलोकाः ॥३५०॥ Jain Education I स्वनिवासाय भीमदुर्गो महाम्भसि ॥ ६७ ॥ योजनानां सप्तदश, शतान्यथैकविंशतिम् । यावदूर्ध्वं समभित्याकार एवायमुद्गतः ॥ ६८ ॥ ततश्च विस्तरंस्तिर्यक् क्रमाद संख्यविस्तृतिः । निक्षिप्य कुक्षौ चतुरः, | सौधर्मादीस्त्रिविष्टपान् ॥ ६९ ॥ ततोऽप्यूर्ध्व ब्रह्मलोके, तृतीयप्रस्तटावधि । उद्गत्य निष्ठितः श्रान्त इवाविश्रममुत्पतन् ॥ ७० ॥ अधश्चायं समभित्त्याकारत्वाद्वलयाकृतिः । शराववुनं तुलयत्यूर्ध्व कुर्कुटपञ्जरम् ॥ ७१ ॥ आदेरारभ्योर्ध्वमयं संख्येययोजनावधिम् | संख्येयानि योजनानि, विस्तारतः प्रकीर्त्तितः ॥ ७२ ॥ ततः परमसंख्येययोजनान्येष विस्तृतः । परिक्षेपेण सर्वत्राप्येषोऽसंख्येययोजनः ॥ ७३ ॥ यद्यप्यधस्तमस्कायः, संख्येयविस्तृतिः खयम् । तथाप्यस्य कुक्षिगतासंख्यद्वीपपयोनिधेः ॥ ७४ ॥ परिक्षेपस्त्व संख्येययोजनात्मैव संभवेत् । क्षेत्रस्यासंख्यमानस्य, परिक्षेपो ह्यसंख्यकः ॥ ७५ ॥ अन्तर्बाह्यपरिक्षेपविशेषस्त्विह नोदितः । उभयोरपि तुल्यरूपतया संख्येयमाततः ॥ ७६ ॥ इत्थमस्य महीयस्तामाहुः सिद्धान्तपारगाः । महर्द्धिकः कोऽपि देवो, यो जम्बूद्वीपमञ्जसा ॥ ७७ ॥ तिसृणां चप्पुटिकानां, मध्य एवैकविंशतिम् । वारान् प्रदक्षिणीकृत्यागच्छेगत्या ययाऽथ सः ॥ ७८ ॥ तयैव गत्या काचित्कं तमस्कायं व्यतिव्रजेत् । मासैः षडिरपि काचित्कं तु नैव व्यतिव्रजेत् ॥ ७९ ॥ तत्र संख्येयविस्तारं, व्यतिव्रजेन्न चापरम् । एवं महीयसि तमस्कायेऽथान्दाः सविद्युतः ॥८०॥ प्रादुर्भवन्ति वर्षान्ति, गर्जन्ति विद्युतोऽपि च । द्योतन्ते विलसद्देवासुरनागविनिर्मिताः ॥ ८१ ॥ तथाहु:'अस्थि णं भंते ! तमुक्काए उराला बलाहया संसेयंति संमुच्छंति वासं वासंति, ? हंता अस्थि' इत्यादि For Private & Personal Use Only तमस्कायः २० २५ ॥ ३५० ॥ २८ unelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy