SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ विकर्वयेत् ॥ ९२॥ मध्ये रत्नपीठिकाख्यं, प्रासाद रचयत्ययम् । षड्योजनशतीतुङ्गम्, रत्नचन्द्रोदयाश्चितम्। ॥९३॥ तत्र सिंहासनं रत्नपीठिकायां सृजत्यसौ । न शक्रेशानवच्छय्यां, संभोगाभावतस्तथा ॥९४॥ सामानिकादिकाशेषपरिवारसमन्वितः । लज्जनीयरताभावात्तत्रोपैत्यथ वासवः॥९५॥ सौधर्मखर्गवासिन्यस्तयोग्यास्त्रिदशाङ्गनाःतत्रायान्ति सहैताभिर्भुले वैषयिकं सुखम् ॥९६॥ माहेन्द्रेन्द्रायोऽप्येवं, देवेन्द्रा अच्युताविधि । चक्राकृतिस्थानकादि, विकृत्य भुञ्जते सुखम् ॥९७॥ तत्र चक्राकृतिस्थाने, प्रासादास्तु सुजन्त्यमी। स्वस्वविमानप्रासादोत्तुङ्गान् सिंहासनाञ्चितान् ॥ ९८॥ एवमैश्वर्ययुक्तोऽपि, विरक्त इव धार्मिकः । महोपका-18 |रिणं प्राज्ञ, इव धर्ममविस्मरन् ॥ ९९ ॥ बहनां साधुसाध्वीनां, जिनधर्मदृढात्मनाम् । श्रावकाणां श्राविकाणां. सम्यक्त्वादिव्रतस्पृशाम् ॥ १०॥ हितकामः सुखकामो, निःश्रेयसाभिलाषुकः । गुणग्राही गुणवतां, गुणवान् गुणिपूजकः॥१॥ सनत्कुमाराधिपतिर्भव्यः सुलभबोधिकः।महाविदेहेषुत्पद्य, भवे भाविनि सेत्स्यति I॥२॥ माहेन्द्रदेवलोकेऽपि, प्रतरे द्वादशे स्थिताः । पञ्चावतंसका अङ्कादय ईशाननाकवत् ॥३॥ मध्यस्थितेऽथ माहेन्द्रावतंसकविमानके । उत्पद्योत्पातशय्यायां, प्राग्वत्कृतजिनार्चनः ॥ ४॥ सिंहासनसमासीन:, पीनश्रीर्भाग्यभासुरः। सामानिकानां सप्तत्या, सहस्रैः परितो घृतः॥५॥ ससषट्पञ्चपल्याढ्यां, सार्द्धार्णवचतुष्टयीम् । यथाक्रम विक्रमाचैर्दधद्भिः स्थितिमायुषः॥६॥ षनिरान्तरपार्षदैरष्टाभिर्मध्यपार्षदैः । दशभिः बाह्यपार्षद्यैः, सेव्यः सुरसहस्रकैः ॥७॥ चतुर्भिश्च लोकपालैः, सप्तभिः सैन्यनायकैः । सैन्यैश्च सप्तभिः १४ JainEducation For Private Personal use only diainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy