SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशामौलयः। देवा विशिष्टद्युतयो, माहेन्द्रवर्गवासिनः॥४५॥ जघन्यतोऽपि पाथोधिद्वितयस्थितयः सुराः । तीयतर्यतृतीयाद्या सनत्कुमारेऽथोत्कर्षात्, सप्तसागरजीविनः ॥४६॥ माहेन्द्रे तु जघन्येन, साधिकाब्धिद्वयायुषः । उत्कर्षतः वयोः देवानां देवलोकाः पुनः सातिरेकसप्तार्णवायुषः॥४७॥ एकस्य सागरस्यांशाः, कल्प्यन्ते द्वादशेदृशाः । खर्गयोरेतयोर्भागा, स्थितिःदेज्ञेयाः स्थितिनिरूपणे ॥४८॥ प्रथमप्रतरे तत्रोत्कृष्टा जलनिधिद्वयम् । स्थितिः पञ्चलवोपेतं, द्वितीयप्रतरे पुनः। ॥३४६॥ होच्यासादि ॥४९॥ दशभागाधिकं वार्द्धिद्वयं स्थितिगरीयसी । त्रिभिर्भागः समधिकास्तृतीये सागरास्त्रयः॥५०॥ चतुर्थे प्रतरे साष्टभागं वारांनिधित्रयम् । पञ्चमे सैकभागं च, वारांनिधिचतुष्टयम् ॥५१॥ षडागाभ्यधिकं षष्ठे, तदेव सप्तमे पुनः । न्यूनमेकेन भागेन, सागरोपमपश्चकम् ॥५२॥ एतदेव चतुर्भागाभ्यधिकं प्रतरेऽष्टमे । नवमे नवभागान्यमेतत्पयोधिपञ्चकम् ॥५३॥साधिका दशमे द्वाभ्यां, भागाभ्यां षट् पयोधयः। एकादशेऽप्येत एव, साधिकाः सप्तभिर्लवैः॥५४॥ प्रतरे द्वादशे चात्र, देवानां परमा स्थितिः। अर्णवाः सप्त सर्वत्र जघन्या त्वम्बुधिद्वयम् I॥५५॥ सनत्कुमारे निर्दिष्टा, येयं ज्येष्ठेतरा स्थितिः। माहेन्द्रेऽपि सैव किंतु, ज्ञेया सर्वत्र साधिका ॥५६॥ अत्रापि सातिरेकत्वं, सामान्योक्तमपि श्रुते । पल्योपमस्यासंख्येयभागेनेति विभाव्यताम् ॥ ५७ ॥ देहोच्चत्वं| सुराणां स्यादिह स्थित्यनुसारतः। द्विसागरायुषस्तत्र, सप्तहस्तोचभूधनाः ॥५८॥ त्रिपाथोधिजीविनां तु, | ॥३४६॥ कराः षट् तनुतुगता। एकादशविभक्तस्य, चत्वारोऽशाः करस्य च ॥ ५९॥ त्रयो भागाः कराः षट् च, चतुजलधिजीविनाम् । द्वौ भागौ षट् करास्तुङ्गो, देहः पञ्चार्णवायुषाम् ॥ ६० ॥ एको भागः षट् कराश्च, षट्सा Jain Education For Private Personal Use Only ( O jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy