________________
Jain Education
॥ अथ सप्तविंशतितमः सर्गः प्रारभ्यते ॥
सौधर्मेशाननामानावुक्तौ खर्गों सभर्तृकौ । स्वरूपमुच्यते किंचितृतीयतुर्ययोरथ ॥ १ ॥ सौधर्मेशाननाकाभ्यां, दूरमूर्ध्व व्यवस्थितौ । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ २ ॥ सनत्कुमार माहेन्द्रौ खर्गौ निसर्गसुन्दरौ । सौधर्मेशानव दिमावप्येकवलयस्थितौ ॥ ३ ॥ संस्थानमर्द्धचन्द्राभं, प्रत्येकमनयोर्भवेत् । उभौ पुनः समुदितौ, पूर्णचन्द्राकृती मतौ ॥ ४ ॥ तत्रापि सौधर्मस्योर्ध्व, समपक्षं समानदि । सनत्कुमार ईशानस्योर्ध्व माहेन्द्र एव च ॥ ५ ॥ प्रतरा द्वादश प्राग्वद्, द्वयोः संगतयोरिह । प्रतिप्रतरमेकैकं भवेद्विमानमिन्द्रकम् ॥ ६ ॥ वैडूर्यं १ रुचकं २ चैव, रुचिकं ३ च ततः परम् । अङ्कं ४ च स्फटिकं ५ चैव, तपनीयाख्य ६ मेव च ॥ ७ ॥ मेघ ७ मध्यं च ८ हारिद्र ९, नलिनं १० लोहिताक्षकम् ११ । वज्रं १२ चेति प्रतरेषु, द्वादशखिन्द्रकाः क्रमात् ॥ ८ ॥ चतस्रः पङ्कयो दिक्षु, प्रतिप्रतरमिन्द्रकात् । अन्तरेषु विना प्राचीं, प्राग्वत्पुष्पावकीर्णकाः ॥ ९ ॥ एकोनपञ्चाशदृष्टसप्तषट्पञ्चकाधिका । चतुस्त्रिद्व्येकाधिका च चत्वारिंशत्ततः परं ॥ १० ॥ चत्वारिंशदथैकोनचत्वारिंशद्विमानकाः । अष्टात्रिंशत्प्रतिपति, प्रतरेषु क्रमादिह ॥ ११ ॥ प्रथमप्रतरे सप्तदश व्यस्रा | विमानकाः । प्रतिपङ्क्ति चतुष्कोणा, वृत्ताः षोडश षोडश ||१२|| सर्वे पङ्क्तिविमानाश्च षण्णवत्यधिकं शतम् ।
tional
For Private & Personal Use Only
१०
१२
Jainelibrary.org