________________
Jain Education Int
।
सम्यग्दृष्टिर्हि तपसा, लभेत मुक्तिमीदृशा ॥ ८६ ॥ तथाहु:- "सद्धिं वाससहस्सा तिसत्तखुत्तो दएण घोएण । अणुचिन्नं तामलिणा अण्णाणतवत्ति अप्पफलो ॥ ८७ ॥" जनप्रवादोऽपि - " तामलितणइ तवेण, जिणमइ सिज्झइ सन्त जण | अन्नाणह दोसेण, तामलि ईसाई गयो ॥ ८८ ॥” तथाप्यस्य निष्फलत्वं वक्तुं शक्यं न सर्वथा । सज्ञानाज्ञानतपसोः, फले कुतोऽन्यथाऽन्तरम् ॥ ८९ ॥ उक्तं - "जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुप्तो खवेइ ऊसासमित्तेणं ॥ ९० ॥" सति मिथ्यादृशामेवं, सर्वथा निष्फलां क्रियाम् । असत्फलां वा मन्वानास्तन्वते बालचेष्टितम् ॥ ९९ ॥ ततश्वेशाननाथोऽयं, प्राग्वज्जिनार्चनादिकम् कृत्वा सुधर्मासदसि, सिंहासनमशिश्रियत् ॥ ९२ ॥ त्रयस्त्रिंशास्त्वस्य चम्पावास्तव्याः सुहृदः प्रियाः । त्रय- ४ स्त्रिंशन्मिथो यावज्जीवमुग्रार्हतक्रियाः ॥ ९३ ॥ आराध्यानेकवर्षाणि, धर्ममन्ते प्रपद्य च । द्वौ मासौ प्रायमीशाने, त्रायस्त्रिंशकतां दधुः ॥ ९४ ॥ सहस्राणि भवन्त्यस्याशीतिः सामानिकाः सुराः । दिशां चतुष्के प्रत्येकं, | तावन्त आत्मरक्षकाः ॥ ९५ ॥ दश देवसहस्राणि स्युरभ्यन्तरपर्षदि । शतानि नव देवीनामिहोक्तानि जिने - | श्वरैः ॥ ९६ ॥ मध्यमायां सहस्राणि, स्युर्द्वादश सुधाभुजाम् । उदितानि शतान्यष्टौ देवीनामिह पर्षदि ॥ ९७ ॥ चतुर्दश सहस्राणि, सुराणां बाह्यसंसदि । शतानि सप्त देवीनामथायुरुच्यते क्रमात् ॥ ९८ ॥ सप्तपल्योपमा न्यायुरन्तःपर्षदि नाकिनाम् । पल्योपमानि पञ्चाशदेवीनां कथिता स्थितिः ॥ ९९ ॥ मध्यायां देवदेवीनां षट् चत्वारि क्रमात् स्थितिः । पञ्च त्रीणि च वाह्यायां, पल्योपमान्यनुक्रमात् ॥ ९०० ॥ कृष्णा च कृष्णराजी च,
For Private & Personal Use Only
१०
१४
helibrary.org