SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Jain Education प्राणामया प्रवत्राज, प्रब्रज्ययाऽथ तत्र सः । यत्र यं प्राणिनं पश्येदाकाकमासुरेश्वरम् ॥ ५५ ॥ तत्र तं प्रणमन् षष्ठतपा आतापनामपि । कुर्वाणो भान्वभिमुखः, षष्ठस्य पारणादिने ।। ५६ ।। आतापनाभुवः प्रत्युत्तीर्य पुर्या | कुलान्यटन् । उच्चनीचमध्यमानि, भिक्षार्थमपराह्न के ॥ ५७ ॥ नादत्ते सूपशाकादि, किंतु केवलमोदनैः । पूर्णे पतद्ग्रहे भिक्षाचर्यायाः स निवर्त्तते ॥ ५८ ॥ एकविंशतिकृत्वस्तं प्रक्षाल्यौदनमम्बुभिः । तादृनीर समाहार्य, षष्ठं करोत्यनन्तरम् ॥ ५९ ॥ एवं वर्षसहस्राणि षष्टिं तपोऽतिदुष्करम् । कुर्वन् ऋशीयान्निर्मासो व्यक्तला| युशिरोऽभवत् ॥ ६० ॥ ततश्चिन्तयति स्मैष, यावदस्ति तनौ मम । शक्तिस्तावदनशनं कृत्वा खार्थ समर्थये ॥ ॥ ६१ ॥ ध्यायन्नेवं ताम्रलियां, गार्हस्थ्यव्रतसंगतान् । आपृच्छ्य लोकानेकान्ते, त्यक्त्वा पतग्रहादिकम् ॥ ६२ ॥ ऐशान्यां मण्डलं पुर्या, आलिख्यानशनं दधौ । पादपोपगमं मृत्युमनाकांक्षंश्च तिष्ठति ॥ ६३ ॥ तदा च बलिचचाssसीद्राजधानीन्द्र वर्जिता । तत्रत्याश्चासुरा देवदेव्यो निरीक्ष्य तामलिम् ॥ ६४ ॥ इन्द्रार्थिनः समुदितास्तत्रैत्येति व्यजिज्ञपन् । क्लिश्यामहे वयं स्वामिन्निर्नाथा विधवा इव ॥ ६५ ॥ इन्द्राधीना स्थितिः सर्वा, सीदत्य|स्माकमित्यतः । कृत्वा निदानमधिपा, यूयमेव भवन्तु नः ॥ ६६ ॥ इत्यादि निगदन्तस्ते, स्थित्वा तामलिसंमुखम् । नानानाच्या दिदिव्याद्धि, दर्शयन्ति मुहुर्मुहुः ॥ ६७ ॥ देवाङ्गना अपि प्राणप्रियप्रेमदृशैकशः । त्यक्त्वा कठिनतां कान्त !, निभालय निभालय ॥ ६८ ॥ मनाग मनोऽस्मासु कुर्यास्तपखिन्नधुना यदि । भवेम तव किंकर्यस्तपःक्रीत्यो भवावधि ॥ ६९ ॥ तामलिस्तु तद्वचोभिर्मरुद्भिरिव भूधरः । निश्चलस्तस्थिवांस्तूष्णीं, ततस्ते national For Private & Personal Use Only १० १४ Mainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy