SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Jain Education In विमानोत्पन्नानामिहैताभिः प्रयोजनम् ॥ ६४ ॥ रोहिणी मदना चित्रा, सोमा चेत्यभिधानतः । चतस्रोऽग्रमहिष्योऽस्य, स्युः सहस्रपरिच्छदाः || ६५ || देवीसहस्रं प्रत्येकं विकुर्वितुमपि क्षमाः । पत्नीसहस्राश्चत्वार| स्तदेवं सोमभूभृतः ॥ ६६ ॥ त्यक्त्वा सुधर्मामन्यत्रार्हत्सक्थ्याशातना भयात् । सहैताभिः पञ्चविधान, कामभोगान् भुनक्तयसौ ॥ ६७ ॥ शेषाणां लोकपालानामप्येतैरेव नामभिः । चतस्रोऽग्रमहिष्यः स्युरियतपरि|च्छदान्विताः ॥ ६८ ॥ सामानिकादयो येऽस्य, ये चैषामपि सेवकाः । तथा विद्युत्कुमाराग्निकुमाराख्याः सयोषितः ॥ ६९ ॥ मरुत्कुमाराः सूर्येन्दुग्रहनक्षत्रतारकाः । सोमाज्ञावर्त्तिनः सर्वे ये चान्येऽपि तथाविधाः ॥ ७० ॥ ग्रहाणां दण्डमुसलशृङ्गाटकादिसंस्थितिः । गर्जितं ग्रहसंचारो, गन्धर्वनगराणि खे ॥ ७१ ॥ उल्कापाताभ्रवृक्षा दिग्दाहा रजांसि धूम्रिकाः । सुरेद्रधनुर कैन्दूपरागपरिवेषकाः ॥ ७२ ॥ प्राचीनादिमहावाता, ग्रामादिदहनादिकाः । जम्बूबीपदक्षिणा, ये चोत्पातास्तथाविधाः ॥ ७३ ॥ जनप्राणधनादीनां क्षयास्ते सोमभूभृताम् । तत्सेविनां वा देवानां नाविज्ञाता न चाश्रुताः ॥ ७४ ॥ विकालकोऽङ्गारकश्च, लोहिताक्षः शनैश्वरः । चन्द्रसूर्य शुक्रबुधवृहस्पतिविधुन्तुदाः ॥ ७५ ॥ भवन्त्यपत्यस्थानीयाः, सोमस्यैते दशापि हि । विका लकादयः सर्वे, ग्रहा एव पुरोदिताः ॥ ७६ ॥ पत्योपयतृतीयांशयुक्त पल्योपमस्थितिः । सोमराजः सुखं भुङ्क्ते, दिव्यनाट्यादिलालितः ॥ ७७ ॥ दक्षिणस्यां च सौधर्मावतंसकविमानतः । विमानं वरशिष्टाख्यमस्ति पूर्वोक्तमानयुक् ॥ ७८ ॥ यमस्तत्र महाराजो, राजते राजतेजसा । धर्मराज इति ख्यातो, निग्रहानुग्रहक्षमः ॥ ७९ ॥ For Private & Personal Use Only १० १४ elibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy