SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाश २६ ऊर्ध्व लोकसर्गे ॥३३७॥ Jain Education | प्रासादस्य नानामणिरत्नमयी मही । ऊर्ध्वभागोऽप्यस्य पद्मलतादिभक्तिशोभितः ॥ ५१ ॥ तस्य प्रासादस्य मध्ये, रचयेन्मणिपीठिकाम् । योजनान्यष्ट विस्तीर्णायतां चत्वारि मेदुराम् ॥ ५२ ॥ तस्या मणीपीठिकाया, उपर्युकां मनोहराम् । विकुर्वयेद्दिव्यशय्यां कोमलास्तरणास्तृताम् ॥ ५३ ॥ रत्नश्रेणिनिर्मितोरुप्रतिपादकृतोन्नतिम् । गाथामिवोद्यत्सुवर्णचतुष्पादां सुखावहाम् ||२४|| युग्मं ॥ ततः सपरिवाराभिः प्राणप्रियाभिरष्टभिः । गन्धर्व नाट्यानी काभ्यां चानुयातः सुरेश्वरः ॥ ५५ ॥ तत्रोपेत्यानेकरूपो, गाढमालिङ्ग्य ताः प्रियाः । दिव्यान् पञ्चविधान कामभोगान् भुङ्क्ते यथासुखम् ॥ ५६ ॥ तथाच सूत्रं - 'जाहे णं भंते! सक्के देविंदे देवराया दिवाई भोग भोगाई भुंजिकामे भवइ से कहमिदाणिं पकरेइ ?, गो० ! ताहे चेव णं से सके दे० एवं महं नेमिपडिरूवगं विउच्चतीत्यादि' भगवती सूत्रे १४-६ ॥ चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः । तेषामपि विमानादिस्वरूपं किञ्चिदुच्यते ॥ ५७ ॥ विमानं तत्र शक्रस्य, यत्सौधर्मावतंसकम् । तस्मात् प्राच्यामसंख्येययोजनानामतिक्रमे ॥ ५८ ॥ तत्र सोममहाराजविमानमति निर्मलम् । संध्याप्रभाख्यं देवेन्द्रविमानाभं समन्ततः ॥ ५९ ॥ तत्रोपपात शय्यायामुपपातसभान्तरे । उत्पद्यते सोमराजः, शेषं सर्वं तु पूर्ववत् ॥ ६० ॥ अधोभागे विमानस्य, सोमराजस्य राजते । जम्बूद्वीपसमा तिर्यग्लोके सोमाभिधा पुरी ॥ ६१ ॥ प्रासादपरिपाट्योऽत्र, चतस्रः शेषमुक्तवत् । वैमानिक विमानार्द्धमानमत्रोच्चतादिकम् ।। ६२ ।। शेषाणां लोकपालानामप्येवं खखसंज्ञया । तिर्यग्लोके राजधान्यः खविमानतले मताः ॥ ६३ ॥ सुधर्माद्याः सभास्त्वत्र, न सन्तीति जिना जगुः । नैषां tional For Private & Personal Use Only शक्राग्रम. हिष्यः २० २५ ॥३३७॥ २८ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy