________________
॥ ८५ ॥ संहर्तुमीष्टे स्त्रीगर्भ, न च तासां मनागपि । पीडा भवेन्न गर्भस्याप्यसुखं किंचिदुद्भवेत् ॥८६॥ तत्र गर्भाशयाद्गर्भाशये योनौ च योनितः । योनेर्गर्भाशये गर्भाशयायोनाविति क्रमात् ॥८७॥ आकर्षणामो-15 चनाभ्यां, चतुर्भङ्गयत्र संभवेत् । तृतीयेनैव भङ्गेन, गर्भ हरति नापरैः॥८८ ॥ इदं चार्थतः पञ्चमाङ्गे ॥ पत्तिसैन्यपतेरस्य, कच्छाः सप्त प्रकीर्तिताः। कच्छाशब्देन च खाज्ञावशवत्तिसुरव्रजः।। ८९॥ ईशानाद्यच्युतान्तानामेवं सर्वबिडौजसाम् । पत्तिसैन्यपतेः कच्छाः , सप्त सप्त भवन्ति हि ॥९०॥ देवास्तत्राद्यकच्छायां, खेन्द्रसामानिकः समाः। द्वितीयाद्याः षडन्याश्च, द्विना दिन्ना यथोत्तरम् ॥ ९१ ॥ यथा सौधर्मेन्द्रहरिनैगमेपिचभूपतेः। स्यादाद्यकच्छा चतुरशीतिदेवसहस्रिका ॥ ९२॥ तथा यानविमानाधिकारी पालकनिर्जरः । सदा शक्रनियोगेच्छुरास्ते विरचिताञ्जलिः॥९३॥ यदेन्द्रो जिनजन्माद्युत्सवेषु गन्तुमिच्छति । तदा वादयते घण्टां, सुघोषां नैगमेषिणा ॥ ९४ ॥ वादितायाममुष्यांच, घण्टाः सर्वविमानगाः। शब्दायन्ते समं यन्त्रप्रयोगप्रेरिता इव ॥ ९५॥ ततः पालकदेवेन, रचिते पालकाभिधे । समासीनो महायानविमाने सपरिच्छदः। ॥९६॥ औत्तराहेण निर्याणमार्गेणावतरत्यधः । एत्य नन्दीश्वरद्वीप, आग्नेयकोणसंस्थिते ।। ९७ ॥ शैले रतिकराभिख्ये, विमानं संक्षिपेत्ततः । कृतकार्यः खर्गमेति, विहिताष्टाहिकोत्सवः ॥९८॥ तथोक्तं-"तत्र दक्षिणो निर्याणमार्ग उक्तः, इह तु उत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वो रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्तः, इह तु दक्षिणपूर्वोऽसौ वाच्य" इति भगवतीसूत्रवृत्ती शतक १६ द्वितीयोद्देशके, तति
सदा शनियोगषणा ॥ २४ ॥ वादितायाममुष्याकाभिधे । समासीनो महायाना९७ ॥ शैले रति
O
Jain Educati
o
nal
For Private & Personel Use Only
N
ainelibrary.org
10