SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रुताः। अमात्यपितृगुर्वादिवत्सन्मान्या बिडौजसः॥५६॥स्वामित्वेन प्रतिपन्ना, एतेऽपि सुरनायकम् । भवन्ति वत्सलाः सर्वकार्येषु बान्धवा इव ॥५७॥त्रायस्त्रिंशास्त्रयस्त्रिंशदेवाः स्युमरि श्रसन्निभाः।सदा राज्यभारचिन्ताकर्तारः शक्रसंमताः॥५८॥ पुरोहिता इव हिताः, शान्तिकपौष्टिकादिकम् । कुर्वन्तोऽवसरे शक्रं, प्रीणयन्ति महाधियः॥५९ ॥ दोगुन्दकापराबाना, महासौख्याञ्चिता अमी। निदर्शनतयोच्यन्ते, श्रुतेऽतिसुखशालिनाम्% ॥६०॥ तथोक्तं मृगापुत्रीयाध्ययने-"नंदणे सो उ पासाए, कीलए सह इथिए । देवो दोगुंदगो चेव, निचं मुइयमाणसो॥ ६१॥-त्रायस्त्रिंशा देवा भोगपरायणा दोगुंदका इति भण्यन्ते" इत्युत्तराध्ययनावचूाँ । साम्प्रतीनास्त्वमी जम्बूद्वीपेऽस्मिन्नेव भारते । पालकसन्निवेशस्थास्त्रयस्त्रिंशन्महर्द्धिकाः ॥ ६२॥ अभूवन् गृहपतयः, सहायास्ते परस्परम् । उग्राचारक्रियासाराः, संसारभयभीरवः ॥ ६३॥ प्रपाल्याब्दानि भूयांसि, श्रावकाचारमुत्तमम् । आलोचितप्रतिक्रान्तातिचाराश्चतुराशयाः ॥ ६४॥ मासमेकमनशनं, कृत्वा मृत्वा समाधिना । त्रायस्त्रिंशाः समभवन्मान्या वृन्दारकेशितुः॥६५॥ न चैवमेतेभ्य एव, त्रायस्त्रिंशा इति प्रथा। नामधेयं नित्यमेतदव्युच्छित्तिनयाश्रयात् ॥६६॥ शतानि मन्त्रिणः पञ्च, संत्यन्येऽपीन्द्रसंमताः । येषामक्षिसहस्रेण, सहस्राक्षः स गीयते ॥६७॥ तथोक्तं कल्पसूत्रवृत्ती-"सहस्सक्खे'त्ति मन्त्रिपञ्चशत्या लोचनानि इन्द्रसंबन्धीन्येवेति सहस्राक्षः। तथा सहस्राणि चतुरशीतिरात्मरक्षकाः। अमी चात्मानमिन्द्रस्य, रक्षन्तीत्यात्मरक्षकाः ॥ ६८॥ एते त्वपायाभावेऽपि, प्रीत्युत्पत्त्यै सुरेशितुः । तथास्थितेश्च निचितकवचाः परितः||१४ Jain Education a l For Private & Personal Use Only Alinelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy