SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 18योजनानां भवेदिह ॥ २७ ॥ लक्षाण्येकोनचत्वारिंशद् द्विपञ्चाशदेव च । सहस्राण्यष्टशत्यष्टाचत्वारिंशत्सम|न्विता ॥ २८॥ समन्ततोऽस्य प्राकारो, वनखण्डाश्चतुर्दिशम् । प्रासादशेखरो मध्ये, प्रासादपङ्किवेष्टितः ॥ २९॥ प्रासादात्तत ऐशान्यामुपपातादिकाः सभाः । एवं प्रागुक्तमास्थेयं, सर्व विमानवर्णनम् ॥ ३०॥ अत्रोपपातसदने, शय्यायां सुकृताञ्चिताः। उत्पद्यन्ते शक्रतया, क्रमोऽत्र प्राक् प्रपञ्चितः॥ ३१॥ यथा हि साम्प्रतीनोऽसौ, सौधर्मनाकनायकः। प्रागासीत्कार्तिकः श्रेष्ठी, पृथिवीभूषणे पुरे ॥ ३२॥ तेन श्राद्धप्रतिमानां, शतं तत्रानुशीलितम् । ततः शतक्रतुरिति, लोके प्रसिद्धिमीयिवान् ॥ ३३ ॥ स चेकदा मेरिकन, मासोपवासभोजिना । दृढाईतत्वरुष्टेन, नुन्नस्य क्षमापतेगिरा ॥ ३४ ॥ गैरिकं भोजयामास, पारणायां नृपा-1 लये। ततः स दृष्टो धृष्टोऽसीत्यंगुल्या नासिका स्पृशन् ॥ ३५॥ जहास श्रेष्ठिनं सोऽपि, गृहे मत्वा विरक्तधीः। जग्राहाष्टसहस्रेण, वणिकपुत्रैः समं व्रतम् ॥३६॥ अधीतद्वादशाङ्गीको, दादशान्दानि संयमम् । पालयित्वाऽनशनेन, मृत्वा देवेश्वरोऽभवत् ॥३७॥ चतुर्भिः कलापकं । गैरिकस्तापसःसोऽपि, कृत्वा बालतपो मृतः।। | अमृदेरावणसर:, सौधर्मेन्द्रस्य वाहनम् ॥३८॥ अयं तावत्कल्पवृत्यायभिप्राय:, भगवतीसूत्राभिप्रायस्स्वय हस्तिनागपुरे श्रेष्ठी, कार्तिकोऽभून्महर्डिकः । सहस्राम्रवणे तत्रागतोऽहन्मुनिसुव्रतः ॥३९॥ कार्तिकाद्यास्तत्र पौरा, जिनं वन्दितुमैयः। प्रबुद्धः कार्तिकः श्रुत्वा, जिनोपदेशमञ्जसा ॥४०॥ गृहे गत्वा ज्ञातिमित्रखजनान् भोजनादिभिः । संतोष्य ज्येष्ठतनये, कुटुम्बभारमक्षिपत् ॥४१॥ वस्त्रज्येष्ठसुते न्यस्त-13 Join Educati o nal For Private & Personal Use Only ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy