________________
लो. प्र. ५६
Jain Education
| दशमोद्देशके ॥ तत्त्वार्थचतुर्थाध्यायटीकायामप्युक्तं - "यदा नाम केनचिन्निमित्तेनाशुभवेदना देवानां प्रादुरस्ति तदाऽन्तर्मुहूर्त्तमेव स्यात्, ततः परं नानुबध्नाति सद्वेदनापि संततं षाण्मासिकी भवति, ततः परं विच्छिद्यतेऽन्तर्मुहूर्त्त, ततः पुनरनुवर्त्तते" इति । तथा हि तुल्यस्थितिषु, निर्जरेषु परस्परम् । प्रागुत्पन्नाः सुराः पश्चादुत्पन्नेभ्योऽल्पतेजसः ॥ ८९ ॥ पञ्चादुत्पन्नाश्च पूर्वोत्पन्नेभ्योऽधिकतेजसः । इत्थं कथंचित्स्यात्तेषां जरा कान्त्यादि - हानितः ॥ ९० ॥ ततस्तेजखिनो वीक्ष्य, नवोत्पन्नान् परान् सुरान् । वृद्धा यून इवोद्वीक्ष्य, ते विद्यन्तेऽपि केचन ॥ ९१ ॥ युद्धादिषु मिथस्तेषां प्रतिपक्ष्यादिनिर्मिता । शस्त्रादिघातजा जातु, देहपीडाऽपि संभवेत् ॥९२॥ तथा प्रियादीष्टवस्तुविनाशविप्रयोगजः । शोको मनः खेदरूपो, मरुतामपि संभवेत् ॥ ९३ ॥ यदाहु:- “जे णं जीवा सारीरं वेदणं वेदेति तेसि णं जीवाणं जरा, जेणं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे, से तेणद्वेणं जाव सोगेऽवि, एवं जाव वैमाणियाणं,” भगवतीषोडशशतक द्वितीयोदेशके । तथा प्राक् प्रौढपुण्याप्सां, केऽपि दृष्ट्वा परश्रियम् । मत्सरेणाभिभूयन्ते, निष्पुण्याः सुखलिप्सवः ॥ ९४ ॥ उक्तं च - " ईसाविसाय० " । किंच माल्यग्लानिकल्पवृक्षप्रकम्पनादिभिः । चिह्नेर्जानन्ति तेऽमीभिः, षण्मासान्तर्गतां मृतिम् ॥ ९५ ॥ तथाहि" माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टेभ्रंशो वेपथुश्चातिश्च ॥ ९६ ॥" स्थानाङ्गसूत्रेऽप्युक्तं - " तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणइ, विमाणाई णिप्पभाई पासित्ता १ कप्परुक्खगं मिलायमाणं पासित्ता २ अप्पणो तेय लेस्सं परिहायमाणिं जाणित्ता ३" इत्यादि ॥
For Private & Personal Use Only
१०
१४
inelibrary.org