SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाश २६ ऊर्ध्वलोकसर्गे देवानां सातजराच्युतिदुःखनिद्रारंभाः ॥३३॥ तां समृद्धिं विमानाद्यामासन्नं च्यवनंततः गर्भोत्पत्त्यादिदःखंच, तत्राहारादिवैशसम् ॥९७॥ चित्ते चिन्तयतां तेषां, यहःखमुपजायते । तज्जानन्ति जिना एव, तन्मनो वा परे तुन ॥९८॥ उक्तं च-"तं सुरविमाणविभवं, चिंतिय चवणं च देवलोयाओ। अइबलियं चिय जनवि फुइ सयसक्करं हिययं ॥१९॥” तथा-विपाकोदयरूपा च, चक्षुर्निमीलनादिभिः। व्यक्तैश्चिहेभवेद्यक्ता, तेषां निद्रा न यद्यपि ॥६००॥ प्रदेशोदयतस्त्वेषां, स्यात्तथाप्यन्यथा कथम् । दर्शनावरणीयस्य, सतोऽप्यनुदयो भवेत् ? ॥१॥क्षयश्चोपशमश्चास्य, देवानां वापि नोदितः। श्रुतेऽप्येषां कर्मबन्धहेतुत्वेनेयमीरिता ॥२॥ तथाहु:-"जीवे णं भंते ! निद्दायमाणे वा पयलायमाणे वा कति | कम्मपगडीओबंधइ?, गो० सत्तविहबंधए वा, अट्ठविहबन्धए वा, एवं जाव वेमाणिए, एवं जीवेणं भंते! हसमाणे वा उस्सुयायमाणे वा कति क० बं०१, गो०!सत्तविहबं० वा, अविहबं० वा, एवं जाव वेमाणिए" भगवतीसूत्रे पञ्चमशतकचतुर्थोद्देशके, इह च पृथिव्यादीनां हासःप्राग्भविकतत्परिणामादवसेय" इत्येतद्भुत्तो। एवं खभावतो निद्रासद्भावेऽपि सुधाभुजाम् । येयं तन्द्रा मृतेश्चिहं, सा तु भिन्नैव भाव्यते ॥३॥ किंच-षड्जीवकायारम्भेषु, रता मिथ्यात्वमोहिताः। यागादिभिर्जीवहिंसोपहारैर्मुदिताशयाः ॥४॥ शरीरासनशय्यादिभाण्डोपकरणेष्वपि । विमानदेवदेवीषु, हर्म्यक्रीडावनादिषु ॥५॥ पूर्वप्रेम्णा स्वीकृतेषु, नृतिर्यक्ष्वपि मूच्छिताः सचित्ताचित्तमिश्रेषु, मग्नाः परिग्रहेष्विति ॥६॥ तथाहुः-"असुरकुमारा पुढविकायं समारभंति जाव तसकायं समारभंति, सरीरा परिग्गहिया भवंति, कम्मा ५० भ०, भवणा प० भ०, देवा देवीओ मणूसीओ ॥३३॥ २८ For Private & Personal Use Only Jain Education Lainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy