________________
द्यधिका चत्वारिंशत्पल्योपमावधिः॥६१॥ यासां स्थितिस्ता भोग्याः स्युरानतखर्गवासिनाम् । पल्योपमेभ्यश्चत्वारिंशतश्च समयादिभिः॥ ६२॥ वर्द्धमाना क्रमात्पञ्चाशत्पल्यावधिका स्थितिः। यासां ताः परिभोग्याः स्युरारणवर्गवर्तिनाम् ॥ ६३ ॥ ईशानेऽप्येवमधिकपल्योपमस्थितिस्पृशः। देव्यस्तद्वासिनामेव, देवानां यान्ति भोग्यताम् ॥ ६४॥ ततः समधिकारपल्योपमाच समयादिभिः । वईमाना स्थितिः पञ्चदशपल्योपमावधिः ॥६५॥ यासां माहेन्द्रदेवानां, भोग्यास्ताः सुरयोषितः। पल्योपमेभ्योऽथ पञ्चदशभ्यः समनन्तरम् ॥६६॥ समयाधिका पल्योपमानि पञ्चविंशतिम् । यावद्यासां स्थिति ग्यास्ता लान्तकसुधाभुजाम् ॥१७॥ पल्योपमेभ्योऽथ पञ्चविंशतिः समनन्तरम् । समयाद्यधिका पञ्चत्रिंशत्पल्योपमावधिः ॥ ६८॥ यासार स्थितिः सहस्रारदेवभोग्या भवन्ति ताः। ततः परं पश्चचत्वारिंशत्पल्योपमावधिः ॥ ६९॥ स्थितिासांतास्तु भोग्याः, प्राणतस्वर्गसद्मनाम् । ततोऽग्रे पञ्चपञ्चाशत्पल्योपमावधिः स्थितिः ॥७॥ यासां ता अच्युतस्वर्गदेवानां यान्ति भोग्यताम् । नाधस्तनानां निःस्वानां, समृद्धा गणिका इव ॥७१॥ विमानसंख्यानियमो, विशेषश्च स्थितेरपि । प्रतिप्रतरमासां नो, जानीमोऽसंप्रदायतः॥७२॥ किंतु संभाव्यत एवमधिकाधिकजीविताः। ऊवोर्ध्वप्रतरे यावच्चरमे परमायुषः ॥७३॥ आहारोच्छ्राससमयदेहमानादिकं किल । अशेषमुक्तं शेषं च, भाव्यमासां सुपर्ववत् ॥७४ ॥ तथा-भवनव्यन्तरज्योतिष्कादिदेवव्यपेक्षया । वैमा. निकानां सौख्यानि, बहून्युग्रशुभोदयात् ॥७५ ॥ तच्चैवं-चतुर्विधानां देवानां, स्युः पुण्यकर्मपुद्गलाः । उत्कृ
A
an Educa
For Private
linelibrary.org
Personal Use Only
KOT