SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ कोटीनां कोटिसहस्राणि, 'ततः परमित्यादि, सागरोपमद्वयारो जघन्या स्थितिर्येषां न्यूना न्यूनतमा चेति, ते चैकैकहीनां भुवमनुप्राप्नुवन्ति यावत्तृतीया पृथिवी, तां च तृतीयां पूर्वसंगतिकाद्यर्थं गता गमिष्यन्ति, परतस्तु सत्यामपि शक्ती न गतपूर्वा नापि गमिष्यन्ति औदासीन्यात्-माध्यस्थ्याद, उपर्युपरि न गतिरतयो देवा जिनाभिवन्दनादीन मुक्त्वे"ति, पञ्चसंग्रहे तु-"सहसारंतिअदेवा नारयनेहेण जंति तइयभुवं । निजंति अच्चुअंजा अचुअदेवेण इयरसुरा ॥१॥ एतट्टीकायामपि श्रीमलयगिरिविरचितायां-आनतादयो देवाः पुनरल्पस्लेहादिभावात् लेहादिप्रयोजनेनापि नरकं न गच्छंतीति सहस्रारांतग्रहण"मिति । एवं मित्रा| दिसाहाय्यादिनोवं यावदच्युतम् । यान्त्यायान्ति च कल्पस्थाः, परतस्तु न जातुचित् ॥९॥ केचित्त्वल्प|र्द्धिका देवा, यावच्चत्वारि पञ्च वा । देवावासानतिक्रम्य, खशत्या परतस्ततः ॥१०॥ गन्तुं न शक्नुवन्त्यन्यसाहाय्यात् शक्नुवन्त्यपि । महर्द्धिकानां मध्येऽपि, नैवामी गन्तुमीशते ॥११॥ अल्पर्द्धिकानां मध्ये तु, सुखं यान्ति महर्द्धिकाः। समर्द्धिकानां मध्ये चेद्यियासन्ति समर्द्धिकाः॥१२॥ तदा विमोह्य महिकावन्धकारविकुर्वणात् । अपश्यत इमान् देवानतिक्रामन्ति नान्यथा ॥१३॥ तथोक्तं-"आतिड्डीएणं भंते! देवे जाव |चत्तारि पंच देवावासंतराइं विइकंते, तेण परं परिड्डीएणं,” इत्यादि, भगवतीदशमशतकतृतीयोद्देशके । 8 सौधर्मेशानयोर्देवलोकयोरथ नाकिनः । उत्कृष्टस्थितयः शक्रशकसामानिकादयः॥१४॥ रत्नप्रभायाः सर्वाधो भागं यावदधो दिशि । खयोग्यं मूर्तिमद्रव्यं, पश्यन्त्यवधिचक्षुषा ॥ १५ ॥ तिर्यग्दिशि वसंख्येयान् , पश्यन्ति 81१४ . Join Education For Private Personal use only alibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy