________________
त्रिभिर्विशेषकं ॥ महात्मनां महर्षीणां, यद्वोत्कृष्टतपस्विनाम् । माहात्म्यमुद्भावयितुमिहायान्ति सुधाभुजः ॥८६॥ अश्रद्दधाना यदिवा, साधुश्राद्धादिसद्गुणान् । सम्यग्दृग्वर्णितांस्तेऽत्रायान्ति तांस्तान् परीक्षितुम् |॥ ८७॥ यद्वा ताहपुण्यशालिशालिभद्रादिवमृशम् । पुत्रादीनां प्रेमधाम्नां, लेहोद्रेकर्वशीकृताः ॥ ८८॥ गोभद्रादिवदागत्य, नित्यं नवनवैरिह । दिव्यभोगसंविभागैः, लेहं सफलयन्ति ते ॥ ८९॥ यद्वा प्रागुक्तवचनस्मरणाद्विस्मृतादाः। खान् बोधयितुमायान्त्याषाढाचार्यान्यशिष्यवत् ॥९॥ एवं पूर्वभवलेहकार्मणेन वशीकृताः । नरकेष्वपि गच्छन्ति, केचिद्वैमानिकामराः॥९॥ तथाहि द्वारकाद्रङ्गभङ्गे जराङ्गजेषुणा । मृत्वान्तिमो वासुदेवस्तृतीयं नरकं गतः॥ ९२॥ रामोऽथ मोहात् षण्मासान, व्यूढभ्रातृकलेवरः। शिलातलाम्भो. जवापादिभिर्देवेन बोधितः ॥९३ ॥ भ्रातुर्देहस्य संस्कार, कृत्वा संवेगमागतः । प्रव्रज्य नेमिप्रहितचारणश्रमणान्तिके ॥ ९४ ॥ पारणाय व्रजन् कापि, खरूपव्यग्रया स्त्रिया । दृष्ट्रा घटभ्रमात्कूपे, क्षिप्यमाणं निजागाजम् ॥ ९५॥ वन एव मया स्थेयमित्यभिग्रहवान्मुनिः। तुङ्गिकाद्रौ तपः कुर्वन् , वन्यसत्त्वान्निबोधयन् ॥ ९६ ॥ दत्ताहारो रथकृता, हरिणेनानुमोदितः। तरुशाखाहतस्ताभ्यां, सह ब्रह्मसुरोऽभवत् ॥९७॥ पञ्चभिः कुलक। बलदेवसुरः सोऽथ, प्रयुक्तावधिलोचनः । भ्रातरं नरके दृष्योत्सुकस्तत्र द्रुतं गतः ॥९८॥ तमुद्दिधीर्षनरकादवोचत् केशवः सुरम् । भ्रातरेवं भृशं पीये, सूतपातं पतत्तनुः ॥ ९९॥ मया कृतानि कर्माणि, भोक्तव्यानि मयैव हि । वचः किमन्यथा तत्स्याद्यन्नेमिखामिनोदितम् ॥५०॥
॥ तमुद्दिधीऍनरकादवो
न्यथा तत्स्यायनेमिस्खामात पतत्तनुः ॥ ९९ ॥ मया
anal
Jain Education
IO
For Private & Personal Use Only
Mainelibrary.org