SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ अद्यापि तादृशः लेहस्तासु पूर्वप्रियासु चेत् । तदाऽस्मान् कृत्रिमप्रेम्णा, कदर्थयसि नाथ किम् ? ॥६५॥ अथ यास्यथ तत्राद्यमिदमादिममङ्गलं । दृष्ट्वा यथेच्छं गच्छन्तु, किं रुध्याः करिणः करैः? ॥६६॥ इत्यादिप्रेमसंदर्भग-1 भितैस्तद्वचोगुणैः । नियन्त्रितास्तद्दाक्षिण्यात्, तत्रैते ददते मनः॥ ६७॥ तत्ताण्डवसमात्या तु, पूर्वसंबन्धिनां नृणाम् । भवा भवन्ति भूयांसः, प्रायः स्वल्पायुषामिह ॥ ६८॥ किंच प्राग्भवबन्धूनां, ताहपुण्याद्यभावतः। नागन्तुमीशते तेऽत्राषाढाचार्याद्यशिष्यवत् ॥६९॥ तथोक्तं स्थानाङ्गे-"तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेजा माणुसं लोगं हवमागच्छित्तए, णो चेव णं संचाएति हवमागच्छित्तए, अहुणोववन्ने देवे देवलोए दिवस कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववणे, सेणंमाणुस्सए कामभोए नो आढाति नो परि० नो अद्वं बंधह नो नियाणं पक० नो ठितिपगप्पं क० १ अहुणोववन्ने देवे देवलोएसु दिवेसु कामभोएसु मुछिए गिद्धे गढिए अज्झोववन्ने० तस्सणंमाणुस्सए पेम्मे वोच्छिन्ने भवइ, दिवे पेम्मे संकंते भवइ २ अहुणोववन्ने देवे देवलोएसु दिवेसु कामभोगेसुमुच्छिए जाव अज्झो० तस्स णं एवं भवइ इयहि गच्छं,मुहत्ता गच्छं, तेणं कालेणं अप्पाउया मणुया कालधम्मुणा संजुत्ता भवंति३” इत्यादि। तथाऽस्य नरलोकस्य, दुर्गन्धोऽपि प्रसर्पति । नानामृतकविमूत्राद्यशुचिप्रभवो महान् ॥ ७० ॥ तत्राप्यजितदेवादिकालेऽतिप्रचुरा नराः। तथा भवन्ति तिर्यञ्चः, क्षेत्रेषु निखिलेष्वपि ॥७१ ॥ तदा मूत्रपुरीषादिबाहुल्यात्पूतिपुद्गलाः । ऊर्ध्वं यान्तो वासयन्ति, पुद्गलानपरापरान्8 ॥७२॥ योजनानां शतान्येवं, पश्च यावत्परैः परैः । दूष्यन्ते पुद्गला जीवा, इवोत्सूत्रप्ररूपकैः॥७३॥ यदा तु नर Jain Educat i onal For Private & Personel Use Only jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy