________________
नाकिनः । हन्तानेन विडय
भवनव्यन्तरज्योतिष्काचकल्पवणोपस्थिताः सारपुद्गलाः
वाणमंतरजोतिसवेमाणियाणं जहा असुरकुमाराणं,” भगवतीसूत्रे । पश्यतैवं शक्तियुक्ता, विवेकिनोऽपि नाकिनः । हन्तानेन विडम्ब्यन्ते, सत्यं सर्वकषः स्मरः ॥ ३६॥ योऽखर्वयत्सर्वगर्वसर्वखमौर्वदुर्वहः । किमपूर्वमखोऽयं, निर्वपुर्यत्सुपर्वजित् ॥ ३७॥ भवनव्यन्तरज्योतिष्काघकल्पद्वयावधि । विडम्बनै कामस्य, ज्ञेया नातः परं तथा ॥ ३८॥ अथो यथोक्तकालेन, यद्याहारार्थिनः सुराः। तदा संकल्पमात्रेणोपस्थिताः सारपुद्गलाः ॥३९॥ सर्वगानेन्द्रियाह्नादप्रदाः परिणमन्ति हि । सर्वाङ्गमाहारतया, शुभकर्मानुभावतः॥४०॥ प्राप्नुवन्तः परां तृप्तिमाहारणामुना सुराः। विन्दते परमानन्दं, खादीयोभोजनादिव ॥४१॥ अत एवाभिधीयन्ते, ते मनोभक्षिणः सुराः । प्रज्ञापनादिसूत्रेषु, पूर्वर्षिसंप्रदायतः॥ ४२ ॥ तथाहु:-"मणोभक्खिणो ते देवगणा पण्णत्ता समणाउसो!"। आहार्यपुद्गलांस्तांश्च, विशुद्धावधिलोचनाः । अनुत्तरसुरा एव, पश्यन्ति न पुन: परे । ॥ ४३ ॥ सहस्राणि दशाब्दानां, येषामायुर्जघन्यतः। भवनेशव्यन्तरास्तेऽहोरात्रसमतिक्रमे ॥४४॥ इच्छन्ति पुनराहारं, तथा स्तोकैश्च सप्तभिः । उच्छ्वसन्ति शेषकाले, नोच्छवासो न मनोशनम् ॥४५॥ दशभ्योऽब्दसहस्रेभ्यो, वर्द्धमानः क्षणादिभिः। किंचिदूनसागरान्तं, यावयेषां स्थितिर्भवेत् ॥ ४६॥ तेषां दिनपृथक्त्वैः स्थाद्वृद्धिभाग भोजनान्तरम् । मुहूर्तानां पृथक्त्वैश्च, श्वासोच्छासान्तरं क्रमात् ॥ ४७॥ पृथक्त्वं तु द्विप्रभृतिनवपर्यन्तमुच्यते । पूर्णाम्भोधिस्थितीनां तु, ततः सागरसंख्यया ॥४८॥ आहारोऽन्दसहस्रः स्यात्पक्षरुच्चास एव च । एवं च स्वर्गयोरायद्वितीययोः सुधाभुजः॥४९॥ जघन्यजीविनो घम्रपृथक्त्वेनैव भुञ्जते । मुहूर्तानां
सो. प्र. ५५
Jain Educa
tional
For Private
Personal Use Only