________________
Jain Education
क्रिया द्रष्टव्याः, न खाभाविकाः, वैक्रियशरीरत्वात् इति जीवाभिगमवृत्तौ । आर्द्रचन्दनलिप्ताङ्गा, अरुणाम्बरधारिणः । चिह्नेन चूडामणिना, सदाऽलङ्कतमौलयः ॥ ८२ ॥ कुमारत्वमतिक्रान्ता, असंप्राप्ताश्च यौवनम् । ततोऽतिमुग्धमधुरमृदुयौवनशालिनः ॥ ८३ ॥ केयूराङ्गदहाराद्यैर्भूषिता विलसन्ति ते । दीप्रा दशखङ्गुलीषु, मणिरत्नाङ्गुलीयकैः ॥ ८४ ॥ देव्योऽप्येवंविधाः कामक्रीडाविधिविचक्षणाः । घनस्तना युवजनोन्मादिलाव| ण्ययौवनाः ॥ ८५ ॥ सप्त हस्ता देहमानमेषामुत्कर्षतो भवेत् । अङ्गुलासंख्यांशमानमुत्पत्तौ तज्जघन्यतः ॥ ८६ ॥ | लक्षयोजनमानं चोत्कर्षादुत्तरवैक्रियम् । प्रारम्भेऽङ्गुलसंख्येयभागमानं जघन्यतः ॥ ८७ ॥ एषां च दाक्षिणात्यानां स्थितिरुत्कर्षतो भवेत् । सागरोपममेकं तदुदीच्यानां च साधिकम् ॥ ८८ ॥ देवीनां दाक्षिणात्यानां, सार्द्ध पल्यत्रयं स्थितिः । ज्येष्ठोत्तराहदेवीनां सार्द्धं पल्यचतुष्टयम् ॥ ८९ ॥ जघन्या तु वत्सराणां, सहस्राणि दश स्थितिः । सर्वेषां मध्यमा ज्येष्ठाक निष्ठान्तरनेकधा ॥ ९० ॥ ज्येष्ठायुषो दाक्षिणात्या, मासार्देनोच्छ्वसअन्त्यथ । आहारकाङ्क्षिणो वर्षसहस्रेण भवन्ति च ॥ ९१ ॥ उदीच्याः सातिरेकेण, मासार्देनोच्छ्वसन्ति वै । सा धिकान्दसहस्रेण, भवन्त्याहारका ङ्क्षिणः ॥ ९२ ॥ मध्यमस्थितयस्त्वेते, खखस्थित्यनुसारतः । मुहूर्त्ताहः पृथक्तत्वैः स्युरुच्छ्वासाहारकाङ्क्षिणः ॥ ९३ ॥ जघन्यजीविनः स्तोकैः, सप्तभिः प्रोच्छ्वसन्त्यमी । एकाहान्तरमाहारं, समीहन्ते च चेतसा ॥ ९४ ॥ ततः संकल्पमात्रेणोपस्थितैः सारपुद्गलैः । ते तृप्येयुः कावलिकाहारानपेक्षिणः सदा ॥ ९५ ॥ विषयः स्याद्गतेरेषामधस्तमस्तमावधि । तृतीयां पुनरवनीं गता यास्यन्ति च स्वयम् ॥ ९६ ॥
For Private & Personal Use Only
१०
१४
w.jainelibrary.org