SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ जानन्ति धार्मिकीम् ॥ ३८ ॥ सिंहासनादथोत्थाय, व्यवसायनिकेतनात् । निर्गत्य प्रागदिशा नन्दापुष्करिण्यां विशन्ति च ॥ ३९ ॥ तत्राचान्ताः शुचीभूता, धौतहस्तक्रमाः क्रमात् । रौप्यं भृङ्गारमम्भोभिः, प्रपूर्य दधतः करे ॥४०॥ नानापद्मान्युपादाय, पुष्करिण्या निरीय च । सिद्धायतनमायान्ति, सिद्धायतनवोदयाः॥४१॥ ततस्ताननुगच्छन्ति, देवाः सामानिकादयः। देवपूजार्हपुष्पादिवस्तुसंपूर्णपाणयः॥४२॥ अथाप्सरोगीतमि-11 श्रातोद्यनादभृताम्बराः। महासमृद्ध्या सिद्धानां, सदने प्रविशन्ति ते ॥४३॥ देवच्छन्दकमागत्य, श्रीजिनार्चावलोकने । प्रणमय्य शिरः सुष्टु, नमन्त्यञ्जलिपूर्वकम् ॥४४॥ ततो लोमहस्तकेन, प्रमाज्य श्रीमदर्हताम् । अर्चाः सुगन्धिभिनीरैः, स्लपयन्ति यथाविधि ॥४५॥तत्र यद्यपि कुन्थ्वादिजन्तवोन तथाप्यसौ।प्रमार्जनादि-10 यतनापूर्विकैवाहतक्रिया ॥४६॥ यद्वा पूर्वभवेऽभ्यस्तं, सप्रमार्जनमर्चनम् । जिनार्चानां ततोऽभ्यासादत्राप्येवं सृजन्त्यमी ॥४७॥ गोशीर्षचन्दननाथ, प्रत्यक्षं पूजयन्ति ताः।प्रत्येकमासां परिधापयन्ति वस्त्रयोयुगम् ॥४८॥ पुष्पमाल्यगन्धचूर्णवस्त्रैराभरणैरपि । पूजयित्वा लम्बयन्ति, पुष्पदामान्यनेकशः॥४९॥ ततः करतलक्षिप्तः, पञ्चवर्णमणीवकः । चित्रोपचाररुचिरं, रचयन्ति भुवस्तलम् ॥५०॥ पुरतोऽथ जिनार्चानामच्छै रजततण्डुलैः। लिखित्वा मङ्गलान्यष्टौ, पूजयन्ति जगद्गुरून् ॥५१॥ ततश्चान्द्रप्रभं वज्रवैड्डयंदण्डमण्डितम् । करे कृत्वा मणिख १ बहुशस्तत्र प्रमार्जनं, विलम्ब्य चान्तरान्तरा, ततो नायं सम्यग्धेतुः सर्वेषां प्राग्भवे जिनमूर्तिपूजासंभवाभावाच्च, कल्पः स पूजाया इत्येव यथार्थ, २ तत्र कच्छादिवस्नचिह्नाभावात् युक्तमिदं, अधुना तु प्रतिमानामेव तथाविधानात् न वस्त्रपरिधापनम् । Jain Educat i onal For Private Personal Use Only A jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy