SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २६ ऊर्ध्व लोकसर्गे ॥३२०॥ तत्तद्विमानं कुर्वन्ति, परे नृत्यन्ति निर्जराः । हसन्ति केचिद्रायन्ति, तूर्याणि वादयन्ति च ॥ २२ ॥ केचिद्वर्षन्ति रजतस्वर्णरत्नावराम्बरैः । वचैः पुष्पैर्माल्यगन्धैर्वासैश्चाभरणैः परे ॥ २३ ॥ केचिद्गर्जन्ति हेपन्ते, भूमिमास्फोटयन्ति च। सिंहनादं विदधते, विद्युद्दृष्ट्यादि कुर्वते ||२४|| हकारैरर्थ ब्रूत्कारैर्वल्गनोच्छलनादिभिः । खाम्युत्पत्तिप्रमुदिताश्रेष्टन्ते बहुधा सुराः ॥ २५॥ अष्टभिः कुलकं । अभिषिच्योत्सवैरेवं, सुराः स्तुवन्ति तानिति । चिरं जीव जिरं नंद, चिरं पालय नः प्रभो ॥२६॥ विपक्षपक्षमजितं, जय दिव्येन तेजसा । जितानां सुहृदां मध्ये, तिष्ठ कष्टविवर्जितः ॥ २७ ॥ सुरेन्द्र इव देवानां ताराणामिव चन्द्रमाः । नराणां चक्रवर्तीव, गरुत्मानिव पक्षिणाम् ॥ २८ ॥ विमानस्यास्य देवानां देवीनामपि भूरिशः । पल्योपमसागरोपमानि पालय वैभवम् ॥ २९ ॥ इत्येवमभिषिक्तास्तेऽभिषेक भवनान्ततः । निर्गत्य पूर्वद्वारेण, यान्त्यलङ्कारमन्दिरम् ॥ ३० ॥ प्रदक्षिणीकृत्य पूर्वद्वारेण प्रविशन्ति तत् । सिंहासने निषीदन्ति, तत्र ते पूर्वदिग्मुखाः ॥ ३१ ॥ ततः सामानिका देवा, वस्त्रभूषासमुद्गकान् । शाश्वतान् | ढौकयन्त्युद्यद्रत्नरश्मिकृताद्भुतान् ॥ ३२॥ ततस्ते प्रथमं चारुवस्त्ररूक्षितविग्रहाः । सुवर्णखचितं देवदृष्यं परिदधत्यथ | ॥३३॥ हारमेकावलिं रत्नावलीं मुक्तावलीमपि । केयूरकट कस्फाराङ्गदकुण्डलमुद्रिकाः ॥ ३४ ॥ ततोऽलङ्कृतसर्वाङ्गा, | मौलिभ्राजिष्णुमौलयः । चारुचन्दनक्साङ्गरागास्तिलकशालिनः ॥ ३५ ॥ स्रक्केशवस्त्राभरणैरलङ्कारैश्चतुर्विधैः । संपूर्णप्रतिकर्माण, उत्तिष्ठत्यासनात्ततः ॥ ३६ ॥ अलङ्कारगृहात्पूर्वद्वारा निर्गत्य पूर्ववत् । व्यवसायसभां प्राच्यद्वारेण प्रविशन्त्यमी ॥ ३७ ॥ तत्र सिंहासने स्थित्वा, सामानिको पढौ कितम् । पुस्तकं वाचयित्वाऽस्मात्, स्थितिं Jain Education tional For Private & Personal Use Only अभिषेकः २० ॥ ३२० ॥ २८ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy