________________
सत्वरम् ॥५॥ ततस्तेऽपि प्रमुदिताः, प्रतिपद्य तथा वचः। ऐशान्यामेत्य कुर्वन्ति, समुद्घातं च वैक्रियम् ॥६॥11 द्विस्तं कृत्वा च सौवर्णान् , रौप्यान् रनविनिर्मितान् । सुवर्णरूप्यजान् खर्णरत्नजान रूप्यरत्नजान् ॥७॥ खर्णरूप्यरत्नमयांस्तथा मृत्लामयानपि । सहस्रमष्टाभ्यधिक,प्रत्येक कलशानमून्॥८॥भृङ्गारादर्शकस्थालपात्रिकासु-| प्रतिष्ठकान् । करण्डकान् रत्नमयान् , चङ्गेरीलॊमहस्तकान् ॥ ९॥ छन्त्राणि चामराण्येवं, तैलादीनां समुद्गकान् । सहस्रमष्टभिर्युक्तं, तथा धूपकडुच्छकान् ॥१०॥ एतत्सर्वे विकुयाथ, सहजान् विकृतांश्च तान् । गृहीत्वा कलशादींस्ते, निर्गत्य खविमानतः॥११॥ गत्वा च पुष्करक्षीरांबुध्योः पद्मदादिषु । गङ्गादिकाखापगासु, तीर्थेषु मागधादिषु ॥१२॥ तत्रत्यानि पयोमृत्लापुष्पमाल्याम्बुजान्यथ । सहस्रशतपत्राणि, सिद्धार्थान् सकलौषधीः ॥१३॥ भद्रशालसौमनसादिभ्योऽपि निखिलढुंजान् । फलप्रसून सिद्धार्थान्, गोशीर्षचन्दनानि च ॥१४॥ समादायाथ संभूय, ते सर्वेऽप्याभियोगिकाः। विमानखामिनामग्रे, ढौकन्ते नतिपूर्वकम् ॥१५॥सामानिकादयः सर्वे, ततो विमानवासिनः। देवा देव्यश्च कलशैः, स्वाभाविकैर्विकुर्वितैः॥१६॥ अभिषिञ्चन्ति तानिन्द्राभिषेकेण गरीयसा । पुष्पैः सर्वाकैः सौंषधीभिरर्चयन्ति च ॥१७॥ युग्मम॥तेषामिन्द्राभिषेकेऽथ, वर्तमाने मुदा तदा । सुराः सुगन्धाम्बुवृष्ट्या, केचित्प्रशान्तरेणुकम् ॥१८॥ केचित्संमृष्टोपलिसशुच्यध्वापणवीथिकम् ।। मश्चातिमश्चभृत्केचित्, केऽपि नानोच्छूितध्वजम् ॥१९॥ आवद्धतोरणं लम्बिपुष्पदामोचयं परे।द्वाय॑स्तचन्दनघटं, दत्तकुङ्कुमहस्तकम् ॥२०॥ केचित्पञ्चवर्णपुष्पोपचारचारुभूतलम् । दग्धकृष्णागुरुधूपधूमैरन्यैः सुगन्धितम् ॥२१॥
Jain Educat
i onal
For Private & Personel Use Only
Mainelibrary.org