SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे ॥ ३१८ ॥ Jain Education उपपातसभा साऽपि सुधर्मेव स्वरूपतः ॥ ६५ ॥ चत्वारि योजनान्यत्रोच्छ्रिताऽष्टौ च ततायता । पीठिकाऽस्यां विमानेशोपपातशयनीयकम् ॥ ६६ ॥ अथैशान्यामुपपातसभायाः स्यान्महाहदः । शतं दीर्घस्तदर्द्धारुर्दशोण्डो योजनानि सः ॥ ६७ ॥ हृदादस्मादधैशान्यामभिषेकसभा भवेत् । त्रिद्वारा स्यात् सापि सर्वात्मना तुल्या सुधर्मया ॥ ६८ ॥ विभाति मध्यदेशेऽस्या, महती मणिपीठिका । विमानेशाभिषेकार्ह, तत्र सिंहासनं स्फुरत् ॥ ॥ ६९ ॥ सन्ति तत्परिवाराई भूरिभद्रासनान्यपि । विमानेशाभिषेकार्थस्तत्र सर्वोऽप्युपस्करः ॥ ७० ॥ अमुष्या अप्यथैशान्यां सुधर्मासदृशी भवेत् । अलङ्कारसभा मध्यदेशेऽस्या मणिपीठिका ॥ ७१ ॥ तस्यां च सपरीवारं, रत्नसिंहासनं भवेत् । विमानस्वामिनः सर्वोऽलङ्कारोपस्करोऽपि च ॥ ७२ ॥ अलङ्कारसभाया अप्यैशान्यां शोभना भवेत् । व्यवसायसभा सर्वात्मना तुल्या सुधर्मया ॥ ७३ ॥ तस्यां रत्नपीठिकायां, रत्नसिंहासनं भवेत् । सत्पुस्तकं चाङ्करत्नमयपत्रैरलङ्कृतम् ॥ ७४ ॥ रिष्टरत्नमये तस्य, पृष्ठके शिष्टकान्तिनी । रूप्योत्पन्नदवरकप्रोता च पत्रसंततिः ॥ ७५ ॥ ग्रन्थिर्दवरकस्यादो, नानामणिमयो भवेत् । न निर्गच्छन्ति पत्राणि, दृढं रुद्धानि येन वै ॥ ७६ ॥ मषी भाजनमेतस्य वर्यवैडूर्यरत्नजम् । तथा मषी भाजनस्य, शृङ्खला तपनीयजा ॥ ॥ ७७ ॥ मषीपात्राच्छादनं च, वरिष्ठरिष्ठरत्नजम् । लेखनी स्याद्वज्रमयी, मषी रिष्ठमयी भवेत् ॥ ७८ ॥ रिष्ठरत्नमया वर्णाः, सुवाचाः पीनवर्चुलाः । धार्मिको व्यवसायश्च लिखितस्तत्र तिष्ठति ॥ ७९ ॥ व्यवसायसभायाश्चैशान्यामत्यन्तशोभना । नन्दा पुष्करिणी फुल्लाम्भोजकिञ्जल्कपिञ्जरा ॥ ८० ॥ उपपातसभावत् स्यात्, tional For Private & Personal Use Only प्रहरणको शादि २० २५ ॥ ३१८ ॥ २८ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy